SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ विना मृगीं कथं जीवेद्वत्सा तज्जीविता ह्यसौ ? | न प्राणिति विना पुत्रीमस्मत्प्रणयिनी खलु ॥५६॥ विना सधर्मचारिण्या, कुतो मे तपसां विधि: ? । तपोविधिमृते मे स्याद्ब्राह्मण्यमनघं नहि ||५७| आ: ! किमस्मात्परं भावि ?, येनाऽराजन्वती मही । मृगयाव्यसनात्पापैर्हता यगर्भिणी मृगी ॥ ५८ ॥ विषीदन्तं स्वयं भूपमूचे कुलपतिस्ततः । ज्ञात्वा कुतोऽपि तं साधिं राजन् ! येनाऽसि रक्षकः ॥५९॥ वञ्चना त्वाह मां तात !, चितामारोढुमादिश । किं न वेत्सि ममैण्या हि, मरणं क्रकचायते ? ॥६०॥ सानुतापं नृपः प्रोचे, मुने ! कुर्वेऽहमत्र किम् ? । परेषां दण्डमाधातुमलमेषोऽस्मि नाऽऽत्मनः ॥६१॥ सौत्सुक्यं च मुनिः प्रोचे, राजन् ! किमुक्तवानसि ? । मया व्यापादिता सैषा, त्वदेणी निशितैः शरैः ॥६२॥ पश्चात्तापात्स्वमात्मानं, प्रणिन्दति महीपतौ । पिधाय वाससा वक्त्रं, पूच्चक्रेऽथ स मायिकः ॥६३॥ ऊचे च क्रुधमारूढो, राजानं वहसीह भोः ! | शरधिं धनुश्च हन्तुं, त्यक्तशस्त्रांस्तपस्विनः ? ॥६४॥ निपत्य पादयो राजा, विनयान्मुनिमब्रवीत् । तमेकमपराधं मे, क्षमस्व त्वं क्षमानिधे ! ||६५॥ मुनिः पराङ्मुखो भूत्वा, चुक्रोश नृपमुच्चकैः । भरतकुलचन्द्राऽङ्क !, व्रज व्रज ममाऽऽश्रमात् ॥६६॥ युष्मादृशां निर्घृणानां श्रुता वागपि पाप्मने । किं पुनः कर्मचाण्डाल ! वाचाल ! सङ्गमस्त्वया ? ॥६७॥ सत्यहरिश्चन्द्रकथा | १५५
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy