________________
इत्याशीर्मुखरे तस्मिन्, राजा पप्रच्छ सादरम् । कश्चित्तपसि वः क्षेमः ?, कौशलं मृगभूरुहाम् ? ॥४४॥ मुनिराह न नो विघ्नास्त्वयि पात्याऽऽश्रमान्नृप ! । किं स्तृणाति जगद्ध्वान्तमुदिते द्युतिमालिनि ? ॥४५॥ अस्मिन्नवसरे क्वाऽपि, जातः कोलाहलो महान् । सम्भ्रमान्मुनिना प्रोक्तः, शिष्यो ज्ञातुं जगाम तम् ॥४६।। अभूच्च दूरेऽब्रह्मण्यमब्रह्मण्यमिदं वचः । श्रुत्वा च मुनिभूपालौ, किमेतदित्यवोचताम् ? ॥४७॥ पुनरातः स्वरो जज्ञे, स्त्रीणां शोकस्पृशामिति । मातश्चेन्मे मृगी मर्ता, करिष्येऽनशनं तदा ॥४८॥ माताऽपि प्राह चेद्वत्से ! करोष्यनशनं किल । तदाऽहमपि कर्ताऽस्मि, विना त्वां जीवितेन किम् ? ॥४९॥ श्रुत्वा कुलपतिश्चैतद्धृदयं स्फोटयद्वचः । किं नः प्राणप्रियापुत्री वञ्चनाऽनशनीयति ? ॥५०॥ इयं च निःकृतिर्नूनमस्मत्सद्धर्मचारिणी । वत्सामनुसरत्येतत्, प्रोचे किमसमञ्जसम् ? ॥५१॥ शिष्यो ज्ञात्वा ह्युपसृत्याऽऽख्यत् कर्णे निभृतं मुनेः ।
आः ! किमेतदित्यूचानः, स तापस्यावजूहवत् ॥५२।। ततः प्रविशतस्तारं रुदती वञ्चना मुहुः ।। सास्रं प्रकुर्वती भूपं, निःकृतिः सान्त्वयन्त्यथ ॥५३॥ उवाच वञ्चनां मायी, मुनिः किं पुत्रि ! रोदिषि ? । साऽख्यदुरात्मकः कोऽपि, मद्वयस्यामहन्मृगीम् ॥५४॥ ऊचे कुलपतिः सास्र, या किलाऽऽसीत् प्रजावती । हहा !! तां निघ्नता तेनाऽऽनीतोऽस्माकं कुलक्षयः ॥५५॥
१५४
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।