________________
इयत: कल्मषाच्छुद्धिः क्व ? मे किं कुर्वतः ? कथम् ? । दुर्व्यापारजुषः कः स्यादाश्रयो मे विना मुनीन् ? ||३३||
तद्व्रजाम्याश्रमं पुण्यं, यत्र सन्ति तपोधनाः । मोक्षाऽऽप्सिलग्नके धर्मकर्मणि प्रवणा हि ये ||३४||
अब्जवासवशाद्भग्नकण्टकेवाऽस्थिरक्रमा । अम्भोधिजलसंसर्गान्नीचाऽभिगमलालसा ||३५||
हस्तिकुम्भस्थलाऽऽवासाद्दत्तरागा वपुष्मताम् । भटकृपाणसौहार्दान्मारणाऽन्ताऽऽपदाऽऽवहा ||३६||
श्रीरेषा कुलटेवाऽत्र, कं नाऽऽश्लिष्यति रागिणी ? | विरागिणी न कं क्रूरा, विडम्बयति मानवम् ||३७|| [त्रिभिर्विशेषकम् ]
ईदृश्याऽप्यनयाऽऽकृष्टविवेकचक्षुषोऽधमाः ।
अन्धा इव न पश्यन्ति, कृत्याऽकृत्यपथं हहा !! ॥३८॥
मुनिभिः श्लाघितं मार्गमुत्सृज्य श्रियमिच्छवः । तदुपायमिवाऽन्यायं, पुरस्कुर्वन्ति धीडाः ॥३९॥ इति मृगाऽङ्गनाघाताद्विरक्तो लोकवर्त्मनः । प्रविवेशाऽऽश्रमं पद्भ्यां सखिभ्यां सह भूपतिः ॥४०॥
"
पठल्लघुतरच्छात्रघोषाऽपास्ताऽघपक्षिणम् ।
पुण्यैः फलिनमालोक्याऽऽश्रमं स मुमुदे नृपः ॥४१॥ दृष्ट्वा कुलपतिं राजा, सन्तोषात् प्रणनाम तम् । उद्गृणन्नाशिषं राज्ञः, पृष्ठे पाणिं न्यधान्मुनिः ॥४२॥ क्षत्रेणोऽपचिते प्रतापजलदोन्मीलद्यशःपाथसा, पूर्णेऽपासितकण्टके स्वविषयक्षेत्रे महीशासन ! | लक्ष्मीशालिलताः खलेषु मिलतीरुन्मूल्य मूलादपि, स्वेनाऽऽरोपयतस्तवाऽस्तु कृतिनः श्लाघैव तद्गोपिका ॥४३॥
सत्यहरिश्चन्द्रकथा ।
१५३