________________
मनोजवमथाऽऽरुह्य, गच्छत्यश्वे स भूपतिः । अभिमुखाऽऽयातमिव, वनं तदासदत्क्षणात् ॥२१॥ अपश्यच्छरयूं क्रीडाकलहाऽऽकुलहंसकान् । पुत्रानिवाऽब्जशय्यायां, दोलयन्तीं करोम्मिभिः ॥२२॥ राजाऽपृच्छत् कपिञ्जलकुन्तलौ पार्श्ववर्तिनौ । क्व ? स वराहस्तावप्यूचतुर्नाथाऽयमग्रतः ॥२३॥ वराहस्तद्वचः श्रुत्वा, घुघुरायितमुच्चकैः । कुर्वाणोऽभिनृपं क्रोधाद्दधावे शौर्यपर्वतः ॥२४॥ लघुहस्तस्ततो राजा, रोमाञ्चाऽञ्चितविग्रहः । अलञ्चकार कोदण्डं, तच्छौर्यान्मानदण्डवत् ॥२५॥ रोदसी इव टङ्कारैः, पूरयंस्तद्वपुः शरैः । वराहं पातयामासाऽद्रिपक्षमिव वासवः ॥२६।। ततः कपिञ्जलं प्राह, राजा पश्याऽग्रतः कियत् । लक्ष्यमेतच्चलं भिन्नं, सोऽप्युपेत्य तथाऽकरोत् ॥२७॥ स्वेनैत्य पश्य मित्रेति, प्रोक्तस्तेन नृपो द्रुतम् । ददर्श रुधिराऽऽक्लान्तं, तडित्वन्तमिवाऽम्बुदम् ॥२८॥ उवाच च नृपोऽत्रेयमतैरिश्ची यथाऽऽकृतिः । तथा मन्ये वराहेण, भाव्यं दिव्येन केनचित् ॥२९।। कुन्तलः प्राह मित्रैष, द्वीपी च निहतः शरैः । कलाऽन्तरमिव मूलद्रव्यस्याऽभूदिदं खलु ॥३०॥ राजा प्राह पुनरिदं, किं ? स प्राहाऽस्त्वनीक्षितम् । गत्वाऽपश्यत्स्वयं राजा, लुठद्गर्भा हतां मृगीम् ॥३१॥ विषण्णः प्राह भूपो धिग्, मामेणीभ्रूणघातिनम् । अशक्तः शत्रुभिर्योद्धं, पशून् निहन्ति मादृशः ॥३२॥
१५२
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।