________________
किं कुर्मो ? दुर्धियः कुर्युर्यत्किञ्चन महीभुजः । तत्तत्प्रतिक्रियाव्यग्रैः, क्लिश्यते सचिवैः पुनः ॥१२॥ विमृश्यैवं तदाऽमात्यः, सशल्य इव निःश्वसन् । विलासमण्डपेऽह्नाय, चिन्ताभाग् नृपति ययौ ॥१३॥ प्रणम्योपविष्टे तस्मिन्, मन्त्रिणं प्राह भूपतिः । वराहाऽऽवेदकस्याऽग्रे, प्रतिज्ञातमकृष्महि ॥९४॥ मन्त्री प्रोचे महीनाथ !, तद्वृत्तं ज्ञातवानहम् । वच्मीदं कृत्यविदुरप्रभुत्वं कस्य नो मुदे ? ॥९५॥ यस्मिन्ननुचरः स्तौति, ह्यकृत्यमपि कृत्यवत् । विजिज्ञपयिषुः किन्तु, किञ्चित् श्रोत्रकटु त्वहम् ॥९६।। स्वैरं विज्ञपयेत्युक्तो, राज्ञा मन्त्र्याह नीतिवित् । नाथाऽयं वसुधात्यागो, नहि मे प्रतिभासते ॥९७।। राजाऽऽह सत्यं सचिव !,किन्त्विदं चार्वचारु वा । प्रारम्भाधुज्यते पूर्वं, निर्वाहोऽङ्गीकृते पुनः ।।९८॥ किञ्च यान्तु श्रियो नाशं, प्रयातु निधनं कुलम् । प्रवासो वास्तु निर्वाहः, प्रतिज्ञाते भवेद्यदि ॥१९॥ तदलमनया पूर्वकृतमीमांसयाऽधुना । स्वर्णलक्षं हि ढौकस्व, स्वेनाऽऽयाति मुनिर्यतः ॥१००। ततः सशिष्यः स मुनिः, कुर्वन्नाऽऽगान्नृपस्तुतिम् ।
अहो ! अगोचरे वाचां, राज्ञोऽस्य चरितं महत् ॥१०१॥ मायया सकोप इव, पुरोभूय नृपस्य सः । अययाचत्स्वशिष्येण, स्वर्णलक्षं महीपतिम् ॥१०२।। नृपाऽऽदेशादथाऽऽदिक्षत्, स मन्त्री कुन्तलं ततः । सोऽपि स्वर्णं समादाय, नृपाऽग्रे मुमुचे ततः ॥१०३।।
१५८
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।