SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ सत्यहरिश्चन्द्रकथा इति बौद्धं वचः श्रुत्वा, राजा श्रीमानजासुतः । जहर्ष यत्प्रहृष्यन्ति, सात्त्विकाः सत्त्वदर्शनात् ॥१॥ सुबुद्धिसचिवेनाऽथ, वीक्षिते प्राह तापसः । मन्त्रिन् ! श्रीमदजापुत्रसत्त्वे कः स्यान्निदर्शनम् ? ॥२॥ सत्त्वं हि जीवितं नृणां, सत्त्वमेव हि कीर्तये । विना सत्त्वं पुमांसोऽपि, स्त्रीपङ्क्त्याऽऽसनभाजनम् ॥३॥ भाव्येवं श्रूयते जम्बूद्वीपेऽयोध्याऽस्ति पूर्वरा । सापत्न्यं यत्र दुःखेन, न सौख्यस्य वपुष्मताम् ॥४॥ जम्बूद्वीपस्थितिरिव, रम्यकविजयाऽन्विता । सदा यतिप्रशस्या च, नभःश्रीरिव या खलु ॥५॥ वेदपाठनिकेवाऽथ, सदा यज्ञोपशोभिता । विन्ध्याऽचलधरित्रीव, नानावंशोपसेविता ॥६॥ इतस्ततः स्वाऽवस्थानाऽदत्तसञ्चारमन्दिराः । दत्ता अप्यर्थिनेऽमर्षाद्यत्राऽऽयान्ति पुनः श्रियः ॥७॥ तस्यां पाति प्रजा राजा, हरिश्चन्द्रो महाभुजः । यनीतितिका कीर्तिधर्मयोः सङ्गमं व्यधात् ॥८॥ १५० चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy