SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ इत्युक्त्वा विपुलं वक्षः, प्रसार्योत्तानविग्रहः । तूर्णं मां भक्षयेत्याह, स सुपर्णं पुनः पुनः ॥१०५।। ततोऽस्थिशेषं तं त्यक्त्वा, विषण्णे पन्नगेश्वरे । जीमूतवाहनवधूर्गुरुभ्यामाययौ सह ॥१०६।। दृष्ट्वा मलयवत्यग्रे, प्राणनाथं तथाऽऽगतम् । मुमोहाऽपूर्वशोकाऽग्निधूमेनेवाऽन्धकारिता ॥१०७।। जीमूतकेतुस्तनयं, विलोक्य सह जायया । पपाताऽऽमूलनिक्षून, इव चन्दनपादपः ॥१०८।। तार्येणाऽऽश्वास्यमानेषु, तेषु जीमूतवाहनम् । संस्पृश्य पाणिना माता, शुशोच करुणस्वनम् ॥१०९।। मुहूर्त्तशेषजीवोऽपि, सोऽब्रवीज्जननीं शनैः । मातर्विनश्वरस्याऽस्य, किं शरीरस्य शोच्यते ? ॥११०॥ भवेऽस्मिन् पवनोद्धान्तवीचिविभ्रमभङ्गुरे । जायते पुण्ययोगेन, पराऽर्थे जीवितव्ययः ॥१११॥ उक्त्वेति वेदनामूर्छामाजगाम महीपतिः । पतिमार्गमनुसृत्याऽमूर्छन्मलयवत्यपि ॥११२॥ सा मूर्छाऽन्तेऽथ सस्मार, देवीं तां स्ववरप्रदाम् । सा साक्षादेव भूत्वा च, तद्वल्लभमजीजिवत् ॥११३॥ चक्रवर्त्तिश्रियं चाऽस्मै, दत्त्वा क्षिप्रं तिरोदधे । ततो देवाः सगन्धर्वास्तस्य सत्त्वमपूपुजत् ॥११४॥ गरुडोऽप्यथ हृष्टाऽऽत्मा, वरदस्तेन याचितः । प्रददौ सर्वनागानां, पुण्यामभयदक्षिणाम् ॥११५।। पितृभ्यां प्रेषितो हर्षात्, स्वराज्यस्योद्दिधीर्षया । स प्राप काञ्चनपुरं, व्योम्नैव दयितासखा ॥११६।। जीमूतवाहनकथा समाप्ता ॥ग्रन्थाऽग्रम् ११६॥ जीमूतवाहनकथा । १४९
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy