SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ स्वविद्यया परिज्ञाय, स्वसूनोर्जीवितव्ययम् । भार्यास्नुषाभ्यां सहितः, सौपर्णी तां शिलां ययौ ॥१३॥ व्यावृत्तः शङ्खचूडोऽपि, निवर्त्य जननीप्रिये । वपुर्गरुत्मते दातुं, द्राग् तां वध्यशिलां ययौ ॥९४॥ तत्राऽपश्यन्नखमुखोत्खातस्खलितशेखरम् । विद्याधरेन्द्रमादाय, तार्क्ष्यमुत्पतितं दिवि ॥९५।। तं वीक्ष्य साऽश्रुनयनो विना घातं विदारितः । आत्मानं तद्वधे मत्वा, कारणं विललाप सः ॥९६।। हा ! सत्त्वविपुलौदार्यधैर्यगाम्भीर्यसागर ! । हा ! पूर्णकरुणाऽऽवास ! हा ! निष्कारणबान्धव ! ॥९७|| इति शोचन् स पदवीमनुसत्तुं गरुत्मतः । जगाम जीवितत्यागदृढीकृतसुनिश्चयः ॥९८॥ [युग्मम्] आस्वाद्याऽऽस्वाद्य तार्योऽपि, गिरौ जीमूतवाहनम् । क्षिप्रं स्थगितसंरम्भः, प्रदध्यौ विस्मयाऽऽकुलः ॥१९॥ अहो ! नु सत्त्ववानेष, कोऽपि धैर्यमहोदधिः । भक्ष्यमाणस्य यस्याऽङ्गे, जायन्ते पुलकाऽङ्कुराः ॥१००। प्रसन्नवदनः क्षिप्तशेषजीवोऽपि वर्त्तते । चिन्तयित्वेत्यपृच्छत्तं, कोऽसीति विनिताऽऽत्मजः ? ॥१०१॥ स तं प्राह किमेतेन, तव भक्षय मामिति । अस्मिन्नवसरेऽभ्येत्य, शङ्खचूडस्तमब्रवीत् ॥१०२॥ हा हा !! मा मा कृथास्ताय !, साहसं किं न पश्यसि ? । अस्य विद्याधरेन्द्रस्य, स्वस्तिकाऽङ्कमुरस्तटम् ॥१०३॥ अहं स नागस्ते भक्ष्यः, पश्य जिह्वालताद्वयम् । विस्फूर्जद्विषहुङ्काररत्नस्फीताः फणाश्च मे ॥१०४॥ १४८ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy