________________
एनां त्रातुं स्वमात्मानं, रक्ष त्वज्जीविता ह्यसौ । किञ्चैषा प्राणदयिता, किं जीवति विना त्वया ॥८१॥ द्वयोः प्राणपरित्यागे, विद्वन् ! मा कारणं भव । मदीयेन शरीरेण, त्रयं पाहि महामते ! ॥८२॥ इत्युक्त्वा शङ्खचूडस्य, पादयोनिपपात सः । प्रार्थितो मातृभार्याभ्यामप्यमन्यत नाऽपरः ॥८३॥ अभ्येति गरुडो याहि, यामि गोकर्णदर्शने । उक्त्वेति मात्राऽनुगते, याते तस्मिन् क्षणादभूत् ॥८४।। उच्चण्डाऽकाण्डकल्पाऽन्तवातव्याकुलितं जगत् । उत्तस्थुर्मकरोत्फुल्लकरालाः सागरोर्मयः ॥८५॥ आगतं गरुडं ज्ञात्वा, सचितं पक्षमारुतैः । आरुरोह मुदा वध्यशिलां जीमूतवाहनः ॥८६॥ विवाहांऽशुकसञ्छन्नः, स्थितस्तत्र व्यचिन्तयत् । सत्त्वोपकाराय पुनर्जन्म भूयान्ममेति सः ॥८७॥ ततोऽदृश्यत दिग्दाहदारुणच्छविरम्बरे । प्रलयाऽग्निशिखालोलपक्षाऽऽक्षेपः खगेश्वरः ॥८८।। ततः स तस्य धैर्याऽब्धेविद्याधरशिरोमणेः । जहार शिरसः खण्डं, चूडारत्नेन मण्डितम् ॥८९॥ पुनः शरीरमादाय, तस्य तुण्डेन खेचरः । गगने वलयाऽऽकारं, चकार गतिविभ्रमम् ॥९०॥ तच्चञ्चक्रकचभ्रष्टं, रक्तधारापुरस्सरम् । अङ्के मलयवत्यास्तच्चूडारत्नमथाऽपतत् ॥९१॥ तद्दृष्ट्वा मङ्घ सम्भग्ना शिरीषलतिकेव सा । जीमूतकेतवे तन्वी, परित्रस्ता न्यवेदयत् ॥९२।।
जीमूतवाहनकथा।
१४७