SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ यतः कोऽप्यस्ति न त्राता, प्राणेशस्याऽन्तमीयुषः । रोदयन्ती लताकुञ्जं, सा रुरोद मुमूर्च्छ च ॥६९॥ जीमूतवाहनोऽभ्येत्य, द्रागुवाच कृपाऽऽकुलः । मातः ! स्थितोऽस्मि ते पुत्रपरित्राणकृते क्षणम् ॥७०॥ परोपकारः संसारे, निःसारे प्राप्यते कुत: ? । अयमेव सदाऽपाये, काये सारसमुच्चयः ॥७१॥ यत्प्रयाति पराऽपायत्राणसत्पुण्यपात्रताम् । इत्याकर्ण्य च सा त्रस्ता, सुपर्णाऽऽशङ्किनी ततः ॥७२॥ पुत्रमाच्छाद्य साऽऽशङ्का, सा पुनः प्रणनाम तम् । निजप्राणैरहं त्राता, तत्पुत्रस्येति सोऽभ्यधात् ॥७३॥ वृद्धाऽवदत्त्वं तनयः, शङ्खचूडाऽधिको मम । वह कल्पशतं धन्यां, पुत्र ! सौम्यामिमां तनुम् ॥७४॥ इति तस्या ब्रुवाणायां, शङ्खचूडोऽतिविस्मितः । तमभ्यधात् स्मितमुखो, ललाटरचिताऽञ्जलिः ॥७५॥ अभिनन्दितमेतत्ते, दर्शनं सत्त्वशालिनः । अहो ! यत्त्वं निजान् प्राणान्, मदर्थे दातुमुद्यतः ॥७६॥ सहामहे कथं नाम, तृणाऽर्थे रत्नविक्रयम् । न विना कौस्तुभं वार्द्धा, भाव्यन्यद्रत्नमुत्तमम् ॥७७॥ किन्तु माता मदीयाऽसावाश्वास्या भवता विभो ! | येन त्वं क्षणदृष्टोऽपि, साधुः सुचिरबान्धवः ॥७८॥ इति नागकुमारस्य, वचः श्रुत्वा कुलोचितम् । जीमूतवाहनः प्राह, बत ! चित्रं प्रभाषसे ॥७९॥ वृद्धेयं त्वां विना पुत्रं, कुलाऽलङ्कारणं सखे ! | कथं जीवति दुःखं हि, जननीनां सुदुस्सहम् ॥८०॥ १४६ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy