________________
ततो ददर्श करुणाऽऽक्रन्दशुष्काऽधराऽऽननां । वृद्धां स युवतिं चैकां, विलपन्तीं मुहुः शुचा ॥५७॥
आनन्दमिव साऽऽकारं, सन्तोषमिव जङ्गमम् । स्फुरत्स्फुटफणारत्नपुञ्जपिञ्जरिताऽम्बरम् ||५८।। संवीतरक्तवसनं, रक्तचन्दनचर्चितम् । नागकुमारमद्राक्षीच्छोष्यमानं तु वृद्धया ॥ ५९ ॥ [ युग्मम्] हा ! पुत्र ! नयनाऽऽनन्द ! सौन्दर्याऽमृतदीधिते ! । शङ्खपालमहावंशव्यक्तमुक्तामणिद्युते ! ||६०|| हा ! शङ्खचूड ! लावण्यनिधानमिदमेव ते । वपुर्गरुडचञ्चग्रवज्रपातसहं कथम् ? ॥ ६१ ॥ [ युग्मम्] भीतेन नागराजेन, प्रेषितोऽसि गरुत्मते । द्विजिह्वासहस्रमध्यान्नैकयाऽप्यसि वारितः ॥६२॥ नाऽभूद्यत्र सुपुत्र ! प्राक्, क्लान्तिदुःखाऽर्त्तिरादितः । सुकुमारे शरीरेऽस्मिन् कस्ते त्राणं करिष्यति ? ॥६३॥ इति वदन्ती पुत्राssस्यमाघ्राय विललाप सा । अथ युवतिरप्येवं, रुदत्यङ्गानि साऽब्रवीत् ॥६४॥ विनैनं नाथमधुनाऽञ्जनेनाऽलं दृशौ ! हि वाम् । शेखरेण शिरस्तेऽथ, केशाः ! पुष्पश्रिया च वः ॥६५॥ श्रवणौ ! कुण्डलाभ्यां वां, कण्ठ ! मुक्तास्रजा च ते । बाह्वङ्गदसुलक्ष्म्या वां, कङ्कणाऽऽ ISSद्यैश्च वां करौ ! ॥६६॥ विलीनं युवयोः पादौ !, नूपुराऽऽरवकौतुकम् । कौसुम्भाऽम्बरम्बऽशोभां च, दैवं क्षाम्यति नाङ्ग ! ते ॥६७॥ सखीभिः क्रीडनं दूरे, वसन्ताऽऽदिमहोत्सवे । कश्मीरजाऽङ्गरागोऽपि स्मर्तव्योऽभूदतः परम् ||६८||
जीमूतवाहनकथा ।
१४५