SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ विस्तीर्णसुकृतप्राप्यं, तारुण्यसुरपादपम् । प्रशान्तविग्रहकथं, त्यक्तचापमिव स्मरम् ॥२१॥ लक्ष्मीविलासभुवनं, भुजस्तम्भविभूषितम् । साऽपि लावण्यनलिनी, राजहंसं विलोक्य तम् ॥२२॥ लज्जामज्जत्तनुलता, कम्पसम्पत्तरङ्गिता । असूत्रमौक्तिकलता, बभूव स्वेदबिन्दुभिः ||२३|| [त्रिभिर्विशेषकम् ] ततः सहेलं तामेत्य, प्राह जीमूतवाहनः । प्रागुपायनकर्पूरमिव दन्तांऽशुभिर्दिशन् ! ॥२४॥ आचाररुचिरः कोऽयं, क्रमस्ते चारुलोचने !? | सम्भाव्यते न यत्पूर्वं, स्वागतात् प्रणयीजनः ||२५| उक्त्वेति तन्मुखाऽम्भोजन्यस्तलोचनषट्पदः । अपृच्छत्तत्सखीं कर्णे, कुण्डलोद्योतिताऽऽननाम् ||२६|| कुलाऽलङ्करणं कन्या, कस्येयं ललिताऽऽकृति: ? । इत्युक्ता तेन सा प्राह, सखी प्रणयमन्थरम् ॥२७॥ विश्वावसोः सिद्धपतेर्वंशमुक्तालता सुता । इयं मलयवत्याख्या, नित्यं देवीस्तुतिव्रता ॥२८॥ , निवेद्येति सखी क्षिप्रं तद्वयस्यादथाऽशृणोत् । जीमूतवाहनकथां प्राज्याऽभिमानशालिनीम् ॥२९॥ इयमालोक्यते दृग्भ्यां, तदेतज्जन्मनः फलम् । इति ब्रुवाणे साऽऽनन्दं, विद्याधरनराधिपे ॥३०॥ आहूता सा प्रतीहार्या, प्रतस्थे मातुरन्तिकम् । न्यस्तं त्वयि मनः पाल्यमिति वाग् नूपुराऽऽरवैः ॥३१॥ सुकुमारेण मनसा, वहन्ती तं महाभुजम् । निजमन्तःपुरं प्राप्य, निःश्वसन्ती श्लथांऽशुका ॥३२॥ १४२ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy