________________
कुलक्रमाऽऽगते तस्मिन् कल्पवृक्षे व्ययीकृते । अपूर्वत्यागिना तेन, त्रिलोकी विस्मयं ययौ ॥९॥ ज्ञात्वा तं प्रतिसामन्ता, रहितं सुरशाखिना । तद्राज्यहरणोद्योगे, बभूवुः संहता मिथः ॥१०॥ जीमूतवाहनो ज्ञात्वा, विद्यया तद्विचेष्टितम् । तद्वधे कूणितमना, राज्यं तत्याज निःस्पृहः ॥११॥ तपस्यन्तं मलयाऽद्रौ, स्वपितरं समातरम् । शुश्रूषितुमगात्तस्मिन्नाकृष्टः पितृभक्तिभिः ॥१२॥ यत्र विद्याधरवधूमधुगण्डूषनिर्भरैः । जृम्भेवाऽऽरम्भि बकुलैः, पुष्पाऽऽननविकाशिभिः ॥१३॥ यत्रोद्धताऽऽलिपटलं, विलोक्य घनविभ्रमम् । नृत्यन्ति हेमकदलीकुञ्जेषु शिखियोषितः ॥१४॥ उत्कण्ठाः कोमलं यत्र, गीतं किन्नरयोषिताम् । शृण्वन्ति निश्चलाः साऽश्रुनयना हरिणाऽङ्गनाः ॥१५॥ नमन्नाश्लिष्य, सस्नेहात्, प्रोक्तः पित्रा विलोकय । क्वाऽपि स्थानं नवमिति, गिरौ बभ्राम तत्र तु ॥१६॥ ददर्श तत्र वैताढ्यशिखरस्फारविभ्रमम् । गङ्गायितपताकाऽङ्क, दिव्यप्रासादमत्र च ॥१७॥ गौरीगर्भगृहेऽश्रौषीत, गीतं वीणास्वनाऽऽश्रितम् । कन्यामपश्यत्संसारसारं सरसिजेक्षणाम् ॥१८।। वदनाऽम्भोजभृङ्गाऽऽलीं, या बभाराऽलकाऽऽवलीम् । प्रशस्तिमिव कामेन, न्यस्तां सौभाग्यभूपतेः ॥१९॥ तां दृष्ट्वा विस्मयोत्फुल्ललोचनस्तन्मयोऽभवत् । क्षिप्रं नवाऽवतारेण, स्मरेण तरलीकृतः ॥२०॥
जीमूतवाहनकथा ।
१४१