________________
जीमूतवाहनकथा
अस्ति श्रीकाञ्चनपुरं, मूर्ध्नि वैताढ्यभूभृतः । रत्नप्राकारकिरणैरश्रान्तोल्लिखिताऽम्बरम् ॥१॥ जीमूतकेतुस्तस्याऽभूद्विद्याधरपतिः पतिः । यस्याऽशेषस्य यशसः, प्रख्याता काऽप्यनन्तता ॥२॥ विद्याधरेन्द्रदुहिता, भार्याऽभूत्तस्य सम्मता । कान्ता कनकवत्याख्या, ख्यातिक्षेत्रं मनोभुवः ॥३॥ तेनाऽजनि सुतस्तस्यां, कल्पद्रुमवराद्वरः । जीमूतवाहनो नाम, समूहो गुणसम्पदाम् ॥४॥ तं सर्वगुणसम्पूर्णं, निजे राज्ये निधाय तु । कल्पवृक्षं क्रमाऽऽयातं, दत्त्वाऽगात्तपसे पिता ॥५॥ जीमूतवाहनो लब्धराज्यकल्पद्रुमोऽपि हि । पितृवियोगदुःखाऽऽत्र्तो, नाऽन्तःसौख्यमवाप सः ॥६॥ कान्ताकटाक्षविक्षेपचपलं यौवनं धनम् । जीवितं चेति स ध्यात्वा, तमचिन्त्य तरुं ददौ ॥७॥ तेन दारिद्र्यनाशाय, जगति प्रतिपादितः । हेम्ना सम्पूर्य निखिलं, क्षणात् सोऽन्तर्दधे द्रुमः ॥८॥
१४०
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।