________________
इति प्रष्टुं दर्शनिनः, कांश्चिदाजूहवत् क्षणात् । पृथक् पृथगपृच्छच्च, नृपसब्रह्मचारिणम् ॥४३८।। यथाऽत्राऽयमजापुत्रः, सत्त्वसत्यैकमन्दिरम् । अन्तरात्मानमानन्दमानयच्चरितैनिजैः ॥४३९।। तथा कथयत स्वस्वदर्शनाऽनुस्मृतिस्पृशम् । भूतं वा भाविनं वाऽपि, सत्त्वे संवादिनं नरम् ॥४४०॥ अथाऽऽह बौद्धः प्रथमं, मन्त्रिराज ! किमुच्यते ? । सत्त्वक्रीतजगच्छ्लाघाऽऽढ्यं भविष्णुरजासुतः ॥४४१।। सूरेष्वथ च सत्येषु, सात्त्विकेषु मनस्विषु । प्रतिभाषेत कोऽह्यन्यः, कथ्यमानोऽपि वाग्मिभिः ॥४४२॥ परं तथाऽपि प्रथितं, कथासु कथयाम्यहम् । चेत्पुनः संवदत्यत्र, भावी जीमूतवाहनः ॥४४३।।
rrrrrrrrrrre
हरिषेणश्रीषेणकथा ।
१३९