________________
यस्मिन्नाऽस्ते गिरौ सूरिर्महात्मा विनयन्धरः । तत्रैव भृगुपाताय, हरिषेणस्ततोऽगमत् ॥४२६॥ मम भ्राता श्रीषेणोऽयं, यतीभूतस्तपस्यति । विनयन्धरमाचार्य, वीक्ष्याऽनंसीन्मुदाऽथ सः ॥४२७॥ तस्य सम्भाषमाणस्य, सूरिनँवोत्तरं ददौ । अथाऽसौ चिन्तयामास, स्वचित्तेन सविस्मयः ॥४२८॥ न चलति न च ब्रूते, दृशौ नयति नाऽन्यतः । यदेतत्कष्टमारेभे, मुमुक्षुस्तन्ममाऽनुजः ॥४२९॥ तदलं भृगुपातेन, पन्थाः शरणमस्य मे । यन्मृत्युर्वाञ्छितो मे स्यादनेनाऽपि पथा खलु ॥४३०।। आस्ते सूरिर्यथैवैष, निषण्णो भुवि निश्चलः । हरिषेणोऽप्यभूत्तद्वत्, तत्सूरेः प्रतिबिम्बवत् ॥४३१॥ इत्थं द्वावपि पादपोपगमनस्वीकारभारक्षमौ, सिंहव्यालकरालकायकषणैर्नोपद्रवैय॑क्कृतौ । शुद्धध्यानविलीनकर्मनिगडौ संसारकारागृहान्निःसृत्याऽऽयुषि पूर्णताऽऽयुषि शिवं मृत्वाऽथ तौ जन्मतुः ॥४३२।। इति सत्पुण्यविषये हरिषेणश्रीषेणकथा ॥ ग्रन्थाग्रम् ४३४।। इति श्रुत्वा कथामेनामाश्चर्याधूनयन् शिरः । किञ्चिदुद्भूतनिद्रः सन्, सुष्वापाऽजासुतो नृपः ॥४३५।। प्रातरुत्थाय देवाऽचर्चा, कृत्वा सदस्युपाविशत् । अगात् सुबुद्धिमन्त्री च, तत्र पौरैः समावृतः ॥४३६॥ अजापुत्रस्य तत्सत्त्वं, विलोक्य सचिवोऽद्भुतम् । अन्योऽपि कोऽप्यभूदीहक्, सत्त्वतत्त्वस्य भाजनम् ? ॥४३७||
१३८
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।