________________
साधु साध्वसि राजर्षे !, विनीतेषु शिरोमणे ! । अनुभूतराज्यः कोऽन्यो, विनयी स्याद्भवादृशः ॥४१४॥ इत्युक्त्वा व्यन्तरो नत्वा, सरित्पुत्रं स भावतः । वृथा कर्थितं बालं, क्षमयित्वा तिरोभवत् ॥४१५॥ सर्वथाऽप्यकृतौद्धत्यः, सरित्पुत्रः पुरेव सः । साधूनां विनयं कुर्वन्, सिद्धान्तानध्यजीगपत् ॥४१६।। षट्त्रिंशद्गुणपूर्णत्वाद्योग्यं सूरिपदस्य तम् । गणाऽभीष्टं सरित्पुत्रमाचार्यं सूरयो व्यधुः ॥४१७।। विनयन्धर इत्याख्या, तत्सूरेः सूरयो ददुः । स गुरुभिरनुज्ञो [ज्ञातो], व्यहरत्साधुभिर्वृतः ॥४१८॥ प्रबोध्य भविकान् क्ष्मायां, विनयन्धरसूरयः । गणं मुक्त्वा गिरौ क्वाऽपि, पादपोपगति व्यधुः ॥४१९॥ इतश्च हरिषेणोऽपि, शरप्रहारजर्जरः । अमात्यै रङ्गशालायां, नीतः पटुरभूच्चिरात् ॥४२०॥ ततस्तस्य यथावृत्ते, सचिवैः कथिते सति । स्वभ्रातृव्यं स्वयं राज्ये, हरिषेणो व्यधात्ततः ॥४२१॥ स्वयं दध्यौ कनीयांसं, निहन्तुं भ्रातरं मया । द्विरूपक्रान्तेऽपि न यत्, स हतस्तद्धि साध्वभूत् ॥४२२॥ उत्तमर्णस्याऽधमर्णादशक्तो वस्तु दापने । स्वयं ददन्न मिथ्या स्यात्, स्ववाचि प्रतिभूर्यथा ॥४२३॥ तथाऽहमपि स्वभ्रातुर्मृत्युमानेतुमक्षमः । तस्याऽहेरनृणीकुर्वे, स्वमात्मानं स्वमृत्युना ॥४२४॥ इति निश्चित्य चित्तेन, विषादाऽऽनन्दभागसौ । मन्त्रिभिर्वार्यमाणोऽपि, हरिषेणस्ततोऽचलत् ॥४२५।।
हरिषेणश्रीषेणकथा ।
१३७