________________
सरित्पुत्रो महासत्त्वो, जुगुप्सादोषवर्जितः । गताऽन्योपायस्तद्वक्त्रस्याऽधः स्वप्रसृतिं न्यधात् ॥४०२॥
वम त्वमत्र निःशङ्कमित्युक्तस्तेन साधुना । बालर्षिश्चाऽवमत्तत्र, विनाऽन्नं केवलं पयः ॥४०३॥ स्थण्डिले प्रेक्षणं रात्रौ न शुद्धयत्यन्धकारतः । कथमेतत्परिष्ठाप्यमिति तस्थौ तथैव सः ॥ ४०४॥ ततश्चक्रन्द बालर्षिः,क्रूरव्यन्तरपीडितः । अहो ! स्फुटति मे गात्रं, तन्मां मर्दय हे मुने ! ||४०५॥ रुद्धहस्तेऽम्बुना साधौ, संवाहनमकुर्वति । नामभिः स मुनीनन्यानुत्थापयितुमारटत् ॥४०६॥ मयि सत्यपि साधूनां, मा भूदुज्जागरो हहा ! | बालर्षिर्बाध्यते चाऽयं, स्फुटता वपुषा च हा ! ॥४०७॥ प्रेक्षोत्प्रेक्षे विना भूमौ, पयस्त्यक्तुं न युज्यते । पानाऽऽहारप्रत्याख्यानान्नैतत्पातुं क्षमोऽस्म्यहम् ॥४०८॥ विमृश्येति बहूपायान्, निश्चिकाय धियेति सः । तैलेनेवाऽम्बुनाऽनेन, वपुः स्वं म्रुक्षयाम्यहम् ॥४०९॥ नैवं जन्तुविघातो मे न साधूज्जागरोऽपि च । रिक्ती भूतकरः पश्चाद्बालर्षि मर्दयाम्यहम् ||४१०|| राज्ये कृतपूर्वीयक्षकर्दमाऽऽदिविलेपनम् । सकर्मक्षालनायेवौक्षद्गात्रं वमनाऽम्भसा ||४११॥ तेनाऽम्भसोपशान्ताऽन्तःकर्म्माऽग्निरिव निर्वृतः । अजुगुप्सः सरित्पुत्रो बालं संवाहयत्यथ ॥४१२॥ अपूर्वविनयेनाऽस्य, मिथ्यादृगपि रञ्जितः । बालर्षिं व्यन्तरो मुक्त्वाऽवादीत्प्रत्यक्षतां गतः ॥ ४१३॥
१३६
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।