________________
प्रतिक्रम्य स्वाध्यायाऽन्ते, सुषुप्सति यतिव्रजे । चक्रे विश्रामणां साधुः, सरित्पुत्रस्तपोभृताम् ॥३९०।। आबालवृद्धसाधूनां, कुर्वन् विश्रामणां ततः । सैष संवाहनाऽर्थं तं, बालं साधुमुपागमत् ॥३९१।। व्यन्तराऽधिष्ठितः सोऽथ, बालर्षिः प्राह तं मुनिम् । बाढं स्फुटति मे गात्रं, तत्संवाहय मां दृढम् ॥३९२।। इच्छामीति भणित्वाऽसौ, सरित्पुत्रमुनिस्ततः । संवाहयितुमारेभे, महाप्राणेन तं लघुम् ॥३९३।। शिरः पादौ भुजावंशौ, जर्छ ऊरू च जानुनी । पृथग् मर्दयतस्तस्य, निशीथसमयोऽभवत् ॥३९४।। सुप्तास्ते साधवः केचिज्जाग्रत्येके यथाविधि । अनुद्विग्नस्तथैवाऽस्थाद्वालर्षि मर्दयन्नसौ ॥३९५।। अथाऽऽह तं स बालर्षिर्हदि मेऽम्भश्चटत्यथ । पृष्ठि निष्ठुरपाणिभ्यां, साधो ! सम्भावयाऽधुना ॥३९६।। प्रवृत्तः स तथाकर्तुं, तदौषधवशादथ । प्राहाऽऽकुलः स बालर्षिः, कदाचिन्मे वलिष्यति ॥३९७।। तत्साधो ! भाजनं किञ्चित्, क्वाऽपि वीक्ष्य समानय । असौ बालर्षिणेत्युक्तो, लग्नः शोधयितुं हि तत् ॥३९८॥ भूमिं प्रमार्जयन् ध्वान्ते, रजोहरणतः शनैः । वसत्यन्तः किमप्येष, नैक्षिष्ट भाजनं ततः ॥३९९॥ महात्मन् ! किं विलम्बोऽयमेहि स्थातुं क्षमो न यत् । आतंबालर्षिणेत्युक्तोऽभ्येत्य नाऽस्तीति सोऽवदत् ॥४००।। अशक्तस्य बहिर्गन्तुं, संस्तरो मे भरिष्यति । इत्याकुलस्य बालपेरागादोत्कारिका ततः ॥४०१॥
हरिषेणश्रीषेणकथा ।
१३५