________________
आचार्यसाधवोऽन्येऽपि, तद्वैनयिककर्मणा । सुखिनः सन्ति सिद्धान्तपाठाऽऽदिष्वेकचेतसः ॥३७८।। अन्यदा व्यन्तरः कोऽपि, मिथ्यादृष्टिः सरित्सुतम् । आसक्तं विनये वीक्ष्य, तत्परीक्षां व्यधादिति ॥३७९।। स क्रूरव्यन्तरः श्राद्धीभूय नत्वा यथाविधि । आचार्यान् व्रतिनोऽथैकं, बालं साधुमवन्दत ॥३८०॥ पाठव्यग्रः स बालर्षिर्धर्मलाभं ददौ नहि । सोऽथ कोपादिवोचे तं, धर्मलाभं ददासि न ? ॥३८१॥ प्रत्यभाषिष्ट बालोऽपि, साधुश्रावक ! मा कुपः । मूर्खत्वादेकचित्तेनोद्धोषन्न त्वां व्यलोकयम् ।।३८२।। अषडक्षीणमाहैष, तं पाठोत्कण्ठितं मुनिम् । वितराम्यौषधं तेऽहमायाति पठतो यथा ॥३८३।। अथ बालमुनिः पाठे, न्यक्कृतस्तुल्यपाठकैः । आहौत्सुक्यान्महाभाग !, देहि देहि ममौषधम् ॥३८४।। अथ स व्यन्तरः श्राद्धोऽस्मै किमप्युग्रमौषधम् । कुर्याद्भुक्तोर्ध्वमित्युक्त्वा, तत्समर्प्य च सोऽगमत् ॥३८५।। बालर्षिः क्षुधितोऽस्मीति, विचार्य स्वयमेव सः । कृत्वा ग्रासं जघासैतदौषधं मुखशुद्धिवत् ।।३८६॥ अथाऽस्य सन्ध्यासमये, पयोऽभ्येति मुखे मुहुः । गुरुभ्यो बिभ्यन्नाऽऽख्याति, निष्ठीव्यति भृशं तु सः ॥३८७।। आचार्यास्तं तथा वीक्ष्य, पप्रच्छुर्वत्स ! किं न्विदम् ? । प्रभो ! किमपि नो वेद्मि, पयोऽभ्येतीति सोऽवदत् ॥३८८।। इदानीं तर्हि माऽध्येष्ठा, गत्वा स्वपिहि निर्भरम् । आचार्यैः स्वयमित्युक्तः, सुष्वाप स लघुर्मुनिः ॥३८९॥
१३४
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।