________________
स्वयं संविग्नमुत्प्रेक्ष्य, भूपमाचार्यपुङ्गवः । तन्मनोद्रुसुधाकुल्यामारेभे धर्मदेशनाम् ||३६८||
चेतः प्रेतसमं न मङ्गलशतान्यासादयत्तृप्यति, प्राय: कायकुटी घटीव लकुटै रोगैर्भवेज्जर्जरा । द्धिः सिद्धिहरी दरीव तमसा चक्षुः परं मोहय-त्यायुर्वायुचलं कलङ्कयति भो ! जीवं मुहुर्जन्मभिः || ३६९॥
देशनाऽम्बुभिरुत्पूर भूपचित्ताऽऽलवालकात् । आनन्दाऽश्रुमिषादक्षियन्त्रेणोर्ध्वमगात्पयः ॥ ३७०॥
आचार्यदेशनोत्फुल्लसंवेगोत्कलिकां दधत् । तदैव सूरिपादाऽन्ते, प्रव्रज्यामग्रहीन्नृपः ॥३७१॥ तप्यमानस्तपस्तीव्रमधीयन् श्रुतमादरात् । सहाऽऽचार्यैर्व्यहार्षीत् स, सहमान: परीषहान् ॥ ३७२॥ अधीती सर्वसिद्धान्ते, विदिती यतिकर्मसु । आश्रिती विनये चाऽथ, गीतार्थोऽभूत्सरित्सुतः ॥३७३॥ विनयः शासने मूलमिति निश्चित्य चेतसा । महात्मा स मुनिः सूरिपार्श्वे प्रत्यशृणोदिति ॥ ३७४॥ अतः प्रभृति साधूनां पठतां जरतां तथा । तपस्यतां ग्लानिमतां, विधेयो विनयो मया ॥ ३७५॥
स्मरन्नप्याऽऽत्मनोऽष्टाङ्गप्रणताऽशेषभूपतेः । स आद्यदिनवच्चक्रे, यतीनां विनयं सदा ॥ ३७६॥ यतः- दानाऽऽदयो जपतपः प्रमुखा गुणा वा, सन्तोऽप्यसन्त इव ते विनयेन हीनाः । नैवाऽङ्गनावपुषि कङ्कणकर्णपूरकेयूरहारवलयैर्घुसृणाद्विना श्रीः || ३७७||
हरिषेण श्रीषेणकथा |
१३३