SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ धिग् धिग् राज्यं च यस्मै हि, गृध्नवो मादृशा मिथः । अन्धा इव न पश्यन्ति, दुस्सहां नरकव्यथाम् ॥३५६॥ तदलं मे कुटुम्बाऽऽद्यैस्तत्स्नेहो वाससीव यत् । आत्मन्यत्युज्ज्वले लग्नो, रजोबन्धनिबन्धनम् ॥३५७।। इति वैराग्यपूरेण, व्रताऽम्भोध्यनुयायिना । त्याजिताऽऽत्मपदस्थानो, राजाऽमात्यानथाऽब्रवीत् ॥३५८॥ भो ! भो ! मूलक्रमाऽऽयाता, मन्त्रिणः श्रूयतां वचः । नरकाऽऽतिफलेनाऽलं, राज्येन मम सम्प्रति ॥३५९॥ यद्येष जीवति भ्राता, हरिषेणो ममाऽग्रजः । तदाऽस्मै दीयतां राज्यमन्यथा मत्सुताय तु ॥३६०॥ ब्रुवन्नैतत्परित्यज्य, सतीं तां राज्यसम्पदम् । भ्रातर्यपि तथाऽवस्थे, सर्वथाऽपि हि निर्ममः ॥३६१॥ कुर्वन्नाऽन्तःपुरं चित्ते, स्निह्यन्नैव सुतेष्वपि । असंस्तुत इवाऽऽत्मीयवल्लभानप्यनाऽऽलपन् ॥३६२॥ लेप्यरूपमिवाऽऽश्वीयहास्तिकं गणयन्नथ । प्रत्यरीन् विस्मरत्कोपं, स्मरन्नाऽऽत्मानमात्मना ॥३६३॥ ऊर्ध्वबाहौ रुदत्येव, तस्मिन् राजपरिग्रहे । ज्वलत इवाऽऽत्मसैन्यान्, निस्ससार सरित्सुतः ॥३६४।। [चतुर्भिःकुलकम्] त्यक्तराज्यभार इव, लघु गच्छन्नतुच्छधीः । कस्मिश्चिद्वहिरुद्याने, विवेश स महीपतिः ॥३६५।। दयाऽऽदिभिर्धर्ममिव, यतिभिः परितो वृतम् । श्रीवर्द्धमाननामानं, तत्राऽऽचार्यं ददर्श सः ॥३६६।। कटरे गुरुसंयोगः संविग्नस्य ममाऽभवत् । ध्यायन्निति तमाचार्यमुपेत्य प्रणनाम सः ॥३६७।। १३२ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy