________________
किञ्चित्त्वपेतमूझेऽभूद्धरिषेणः परन्तु सः । प्रहारवेदनाऽऽक्रान्तो, नोन्मीलयति चक्षुषी ॥३४४।। ततः सरित्सुतो राजा, मुञ्चन्नश्रूण्युवाच तम् । श्रीषेणोऽहं तव भ्राता, तत्प्रसीद दृशा मयि ॥३४५॥ त्वद्वियोगाग्निसन्तप्तमुत्थायाऽभिषजस्व माम् । एतावन्ति दिनान्यार्य ! न मेऽभूत्त्वां विना रतिः ॥३४६।। हरिषेणस्तु नोवाच, विध्वस्तसकलेन्द्रियः । रणाऽऽवेशवशात्किन्तु, भूमिमाहन्ति निर्भरम् ॥३४७।। अतिबाधोत्थदाहेनाऽवतप्तेन कुलस्थितिम् । आसादयन्तं तं वीक्ष्य, सरित्पुत्रो व्यचिन्तयत् ॥३४८॥ उत्कण्ठा द्रष्टुमन्योऽन्यमन्योऽन्यं यो मुद्यमः । अन्योऽन्याऽज्ञातभ्रातृत्वाद्धिग् धिगज्ञानताऽऽवयोः ॥३४९।। तदज्ञातस्वरूपत्वात्, मयैव किल शत्रुणा । शत्रोरिव निजभ्रातुरवस्था कीदृगाहिता ? ॥३५०॥ अहहाऽसारता कीहक, शरीरस्य शरीरिणाम् ? । यदामपात्रवत्स्यात्तु, स्तोकादपि च भङ्गुरम् ॥३५१।। गत्वरेणाऽमुना चेत्स्यात्साधितं परमं पदम् । तन्मूढाः किं न गृह्णन्ति, लाभमस्य विनश्यतः ? ॥३५२॥ बाल्येऽकिञ्चित्करं गाढं, यौवने वार्धिके जरत् । अलभ्यस्यैकरूपेण, विश्रम्भो वपुषोऽस्तु कः ? ॥३५३॥ वसन् शरीरदुर्गेऽपि, नाऽऽत्मा कातरतां त्यजेत् । रोगाऽरिवेष्टितो नंष्टुं, धर्मद्वारं य ईहते ॥३५४॥ आत्मनो नीयमानस्योत्तमणैः कर्मभिर्बलात् । रक्षाऽऽस्तां स्वजनैर्हस्ताज्ज्वाल्यते तद्वपुर्गृहम् ॥३५५।।
हरिषेणश्रीषेणकथा ।
१३१