________________
अधिसङ्गरमभ्येत्य, शिरश्छेत्स्यामि ते विभोः । उच्चैरुक्त्वेति सत्कृत्य, दूतं सोऽथ व्यसर्जयत् ॥३३२॥ ज्वलन्नग्रेऽपि वैलक्ष्याहूतेनोत्तेजितः पुनः । आदिशत्सैष राजन्यान्, द्रुतं सन्नह्यतामिति ॥३३३।। एतैस्तथा कृते स्नात्वा, निजामभ्यर्च्य देवताम् । हरिषेणः समारोहदैरावणमिव द्विपम् ॥३३४।। वादिते रणतूर्ये च, वीरेषूद्गतरोमसु । प्रावर्तत महायुद्धं, द्वयोर्नासीरयोस्तयोः ॥३३५।। अन्योन्यं हन्यमानेषु, सुभटेषु बहुष्वथ । हरिषेणस्य सैन्यं तत्, प्रतिवीरैरभज्यत ॥३३६।। जीवानादाय नश्यत्सु, राजन्येषु निजेषु सः । हरिषेणः स्वयं योद्धमारेभे रिपुभिः सह ॥३३७।। सरित्पुत्रस्य सैन्येन, वर्द्धिष्णूत्साहशालिना । घूकवत्काकयूथेन, हरिषेणस्त्ववेष्ट्यत ॥३३८॥ गताऽऽतङ्कस्तथाऽप्येष, कुर्वाणो युद्धमद्भुतम् । आहतो हृदि बाणेन, सरित्पुत्रपदातिना ॥३३९॥ तेन बाणप्रहारेण, छिनो मर्मणि कुञ्जरात् । पतितोऽथाऽरिसैन्यैस्तैरुत्पाट्याऽऽनीयतेस्म सः ॥३४०॥ मुक्तश्च सरित्पुत्रस्य, पुरतो मूच्छितः स तैः । मझाता हरिषेणोऽयमित्युपालक्षयत्स तम् ॥३४१।। अरे ! पयः पयः शीतं, व्यजनं व्यजनं तथा । ब्रुवन्नेतत्पटाऽन्तेन, नृपं वीजयति स्वयम् ॥३४२॥ तथा शीताऽम्बुना तस्याऽभिषिच्य परितो वपुः । वीजयन्ति जलाऽऽर्द्राभिर्मुहुस्तं नृपसैनिकाः ॥३४३॥
१३०
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।