SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ पपात शयनोत्सङ्गे, दृष्टा मकरकेतुना । तस्याः प्रववृधे क्षिप्रं; स कोऽपि विरहाऽनलः ॥३३॥ [युग्मम्] सा लज्जातरला प्राह, तां सखी पार्श्ववर्त्तिनीम् । किं करोमि ? क्व गच्छामि ? कस्यैतत्कथयामि च ? ॥३४॥ अयं कन्याविरुद्धो मे, क्रमः कामेन निर्मितः । दूत्यादिशामि सन्देशं, प्रयामि स्वयमेव वा ॥३५॥ किञ्च सन्दिश्यते तस्मिन्, किञ्च वा स्वयमुच्यते ? । सर्वथाऽनर्थसार्थेऽस्मिन्, मरणं शरणं मम ॥३६॥ वयस्यामभिधायेति, तूष्णीकाऽभून्मृगेक्षणा । जीमूतवाहनोऽप्यस्मिन्, क्षणेऽभूद्विरहाऽऽतुरः ॥३७॥ तं ध्यानमूकमभ्येत्य, क्षामं मधुकरः सखा । उवाच विप्लवः कोऽयं, तवाऽपि मनसः सखे ! ॥३८॥ प्रत्यग्रचन्दनदलैः, कल्पिते सुहृदा ततः । निषण्णः शयने प्राप, न स सन्तापतानवम् ॥३९॥ अत्राऽन्तरे मलयवत्यभ्येत्य विरहाऽसहा । क्वाऽप्याऽऽश्रमतरुलताप्रान्ते पाशमकल्पयत् ॥४०॥ ततः प्रणम्य सा देवीं, हा ! तातेति विलप्य च । विधाय साऽश्रुनयनास्तत्र बालमृगाऽङ्गनाः ॥४१॥ जीमूतवाहनो भूयादन्यस्मिन्मे सुजन्मनि । पतिरित्यभिधायाऽभूत्, सा पाशाऽभिमुखी क्षणात् ।।४२॥ [युग्मम्] तच्छ्रुत्वा सुहृदाहूतस्तूर्णं जीमूतवाहनः । छन्नस्तरुलताजाले, तच्छुश्राव ददर्श च ॥४३॥ देवी प्राह ततस्तुष्टा, पुत्रि ! मा साहसं कुरु । भविता चक्रवर्ती ते, भर्ता जीमूतवाहनः ॥४४॥ जीमूतवाहनकथा ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy