________________
ततः क्षामाक्षरं तस्मै, हरिषेणो न्यवेदयत् । समस्तमात्मवृत्तान्तं, स्थित्वा स्थित्वा त्रपावशात् ॥ २६०॥ यक्षोऽथ प्रत्यभाषिष्ट, हरिषेणं विषादभाक् । मया कुस्वामिना यस्ते, कृतोऽनर्थः क्षमस्व तत् ॥२६१॥ अथोचे हरिषेणोऽपि, यक्षराज ! तवाऽधुना । रक्षतो मार्यमाणं मां, स्वामिता सफलाऽभवत् ॥२६२॥ नागस्याऽग्रे प्रपन्नं यत्, तदकुर्वन्नहं वचः । त्वद्दत्तजीवितं मन्ये, मृत्योरुपरि चूलिकाम् ॥२६३॥
साऽवष्टम्भं पुनर्यक्षो, हरिषेणं जगाद सः । मा विषीद प्रतिज्ञां ते, विधास्ये सफलां खलु ॥ २६४॥
पप्रच्छ हरिषेणस्तं, कुत्राऽपि दृष्टवानसि ? | लघु मे भ्रातरं यक्ष, प्रत्यवोचन्न कुत्रचित् ॥२६५॥ अदत्तविभङ्गज्ञानोपयोगो यक्षराडसौ । पुरीस्थमपि नाऽज्ञासीच्छ्रीषेणमन्यथाऽभिधम् ॥२६६॥ इतश्च दत्तसङ्केतः, स नागो वटकोटरात् । नृपस्य घातकोऽभूदित्याकर्ण्य स्वाss श्रयं ययौ ॥ २६७॥ श्रीषेणं तत्र राजानमविद्वान् यक्षराडथ । हरिषेणयुतोऽचालीत्क्वाऽप्येनं वीक्षितुं ततः ॥ २६८॥ अविद्यमानत्वात्ताभ्यां, श्रीषेणः क्वाऽप्यदर्शि न । स्वर्णद्वीपमुपेत्याऽऽह, हरिषेणं स यक्षराट् ॥२६९॥ त्वत्प्रतिज्ञाऽर्थमाधातुं, पुरस्याऽस्य महीपतेः । ग्रहीष्यामि सुतं पश्चान्न मोक्षाम्यन्यमान्त्रिकैः ॥२७०॥
राज्ञा पुत्रग्रहाऽऽर्त्तेन, वादितं डिण्डिमं स्पृशेः । मुञ्चन् हुङ्कारमागच्छेर्निर्भीर्नृपसुताऽन्तिकम् ॥२७१॥
१२४
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।