SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ अस्माकं भूपतिं हन्तुं, कृतस्त्रीवेषकैतवम् । दुरात्मानममुं बद्ध्वा, छिन्तेत्युच्चैरुवाच सः ॥२४८॥ बद्धे च तस्मिन् श्वपचैर्निष्कृपः सौनिकोऽवदत् । अहो ! नर ! स्मर त्वं हि, किमपीष्टं स्वदैवतम् ? ॥२४९॥ अस्माभिः स्त्रीभ्रमेण त्वं, नाऽसि बद्धो नवा हतः । ज्ञातपुंस्त्वोऽधुना त्वं हि, यक्षस्याऽग्रे समाप्यसे ॥२५०॥ हरिषेणस्तमूचेऽथ, साऽवष्टम्भं निरस्तभीः । दैवात् समागते मृत्यौ, स्मृतः कः किं करिष्यति ? ॥२५१।। प्रथमं छिन्धि मे हस्तं, यद् घातो नाऽलगन्नृपे । पश्चात् कुरु यथाऽभीष्टं, यक्षाऽग्रे सौनिक ! द्रुतम् ।।२५२।। इत्युक्तो हरिषेणेन, किलाऽसौ, प्रहरिष्यति । विज्ञाय हरिषेणं तु, यक्षो मा मेत्यभाषत ॥२५३।। मत्प्रतिचारको ह्येष, हरिषेणाऽभिधस्ततः । किमेवं हन्तुमारेभे, रे चाण्डाल ! ममाऽग्रतः ? ॥२५४॥ एतस्यैव हि शुद्ध्यर्थं, देशाद्देशं भ्रमाम्यहम् । मत्प्रमादादहो ! प्राप, दुर्दशामयमीदृशीम् ॥२५५।। इति पुम्भूतयक्षोक्ताश्चाण्डालाः कृतभीतयः । ते सर्वेऽपि पलायन्त, सिंहनादादिव द्विपाः ॥२५६।। ततश्च हरिषेणस्य, बन्धा यक्षप्रभावतः । सुबद्धा अप्यत्रुट्यन्त, टत्त्रटदिति स्वयम् ॥२५७।। किमेष स एवाऽहोऽयं, ? यक्षो यः सेवितः पुरा । इति ज्ञात्वा हरिषेणस्तस्थौ नीचैष्कृताऽऽननः ॥२५८।। पुरुषीभूतयक्षोऽथ, स्नेहात्तमभिषस्वजे । आलपच्च महाभाग !, कथमित्थं विडम्बना ? ॥२५९।। हरिषेणश्रीषेणकथा । १२३
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy