________________
तदेनामधुनैवाऽहं, नीत्वा यक्षस्य वेश्मनि । एतत्कर्णाऽऽदिकैः कुर्वे, पूजां तस्य स्वयं मुदा ॥२३६॥ ध्यात्वेति सौनिकोऽथाऽऽत्मवानाहूय सादरम् । द्वाभ्यां पुम्भ्यां धृतं तत्र, तदैवैनं निनाय सः ॥२३७।। हरिषेणस्तु शूरोऽपि, द्वीपीव विधृतः स तैः । न नंष्टुं न च तान् हन्तुं, शक्तोऽगाद्यक्षवेश्मनि ॥२३८॥ दध्यौ च धिग् धिग् मां येन, न छिन्नं भूपतेः शिरः । न च ममाऽपि मूर्घानमचिच्छिदन्नराऽधिपः ॥२३९॥ अधुनाऽपहृताऽस्त्रस्य, छागस्येव तपस्विनः । ममाऽङ्गैः सौनिका यक्षमर्चयिष्यन्ति सम्मदात् ॥२४०॥ श्रीषेणो न मया दृष्टो, नाऽहेश्योपकृतिः कृता । चाण्ड[T]लहस्तैर्दैवं हा !, दत्ते मृत्यु ममाऽधुना ।।२४१॥ उपासितं मया स्त्रीत्वं, नृपघाताय यत्पुरा । तेन बाधितपुंस्त्वेन, हता क्षत्रियता मम ॥२४२॥
अथाऽसौ सौनिको यक्षमभ्यर्च्य बहिरेत्य च । हरिषेणस्य कर्णाऽऽदावक्षिपच्चन्दनच्छटाम् ॥२४३।। गाढं धरत भो ! एनामबलां नृपघातिकाम् । इत्यादिश्याऽऽत्मपुरुषांस्तीक्ष्णां चकर्ष कर्तिकाम् ॥२४४|| पापे ! स्वेनाऽजितस्य त्वं, कर्मणः फलमाप्नुहि । इत्युक्त्वा प्राक्को छेत्तुं, कपोले स करं न्यधात् ॥२४५।। मुण्डितत्वात् कचस्तम्बास्तीक्ष्णास्तस्य करेऽलगन् । कथं कूर्चमिवैतस्या, इत्यसौ परितोऽस्पृशत् ॥२४६।। कपोलस्पर्शतः कूर्च, ज्ञात्वोचे सौनिको भयात् । अरेरे !!! धियतां गाढं, यत् पुमानेष नाऽबला ॥२४७॥
१२२
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।