________________
ततः साऽन्तःपुरे राज्ञि, सरित्तीर्थमुपेयुषि । स्त्रीवेषहरिषेणेन, युक्ताऽगात्तत्र दास्यपि ॥ २२४॥ हरिषेणोऽपि गूढं च, कटीनिक्षिप्तशस्त्रिकः । गत्याऽथ वचसा स्त्रीवद्दासीपृष्ठगतोऽभ्रमत् ॥२२५॥ अथाऽङ्गरक्षका दूरे, चिक्षिपुः पुरुषव्रजम् । स्वयं चाऽस्थुर्दवीयांसस्ततो देवीयुतो नृपः ॥ २२६॥
अस्नाद्राज्यकृताऽऽचारपरतन्त्रः सरिज्जले ।
देवतां च नमस्कर्त्तु, प्राविक्षद्देवतौकसि ॥ २२७॥ [ युग्मम्]
पुरैव देवीवेश्माऽन्तःप्रविष्टेन दुरात्मना । दासीति राज्ञाऽनुक्तेन, हरिषेणेन दुर्धिया ॥ २२८ ॥ देवीं प्रत्यानतमूर्ध्नो, राज्ञः प्रविशतस्ततः । भ्रातेत्यजानताऽमोचि, प्रहारः कन्धरां प्रति ॥२२९॥ [ युग्मम् ]
राज्ञ: पुण्यात्प्रहारोऽस्य, प्रास्खलद्द्वारदारुणि । राजा च तत्क्षणादेव, व्याघुट्याऽऽगाद्भयाद्बहिः ॥ २३०॥ ततोऽन्तःपुरनारीणामभूत्कोलाहलो महान् । दधावुश्चाऽङ्गरक्षाऽऽद्याः, प्रोद्गीर्णतरुवारयः ॥२३१॥ स्त्रीत्वादियमवध्या मे, निर्वास्या किन्तु मत्पुरात् । अधुनैवेति सचिवमादिश्याऽगाद्गृहं नृपः ॥२३२॥ ततः समादिशन्मन्त्री, सौनिकं कालपाशिकम् । व्यङ्गीकृत्य पुरादेनां, स्त्रियं निर्वासाऽधुना ॥ २३३॥ सौनिकोऽप्यथ तां धृत्वा, गत्वा धाम निजं ततः । अचिन्तयदहो ! साधु, मयाऽऽप्ता समयेऽङ्गना ॥२३४॥
,
यतोऽधुनाऽवतीर्णस्य वने नाऽतिदवीयसि । पूजा स्त्रीकर्णनासौष्ठैर्यक्षस्य मानिता मया ॥ २३५ ॥
हरिषेण श्रीषेणकथा ।
१२१