SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ गच्छन्तीं नित्यशो राजवेश्मन्यस्खलितामिमाम् । हरिषेणोऽन्यदेकाऽन्ते, सकौतुकमिवाऽवदत् ॥२१२॥ अपूर्वत्वान्नृपं द्रष्टुं, प्रियेऽस्ति मम कौतुकम् । तत्त्वं केनाऽप्युपायेन, मम दर्शय भूपतिम् ॥२१३।। दास्यूचे तमुपायोऽस्ति, साधुर्भूपतिदर्शने । यास्यत्यद्यैव सन्ध्यायां, नद्यां साऽन्तःपुरो नृपः ॥२१४।। तत्र स्नात्वा सचेलं च, सरित्तीरस्थितां श्रियम् । प्रणंस्यति नृपो राज्ञी, चाऽऽवृतनव्यवाससौ ॥२१५।। न कोऽपि हि पुमांस्तत्र, प्रवेशं लप्स्यते प्रिय ! । अतस्त्वं कृतस्त्रीवेषश्चल तत्र मया सह ॥२१६॥ हरिषेणस्ततः प्राह, किमर्थं सैष भूपतिः ? । महाशीते पतत्यस्मिन्, सचेलं स्नाति निश्चयात् ॥२१७।। भुजिष्याऽख्यन्न चेद्वर्ष, प्रत्यत्र स्नाति यो नृपः । माघमासाऽष्टमीरात्रौ, घातकेन स मार्यते ॥२१८।। अहंयुत्वादविहितस्नानस्त्वग्रेतनो नृपः । अनेन प्रहतो राज्ञा, स्वयं राज्यमलङ्कृतम् ॥२१९।। ततः प्रत्ययितो राजा, स्नात्येवैष स्थिते दिने । शूरा अपि पुमांसो यद्देवतां प्रति कातराः ॥२२०।। अथाऽसौ सभयो दध्यौ, हरिषेणः कथं नृपः । यथाविधिकृतस्नानो, घातकेन न मार्यते ॥२२१।। साऽवष्टम्भं पुनर्दध्यौ, दृष्टश्चेच्चक्षुषा नृपः । तदा दैवमपि क्लीबं, मत्तस्तं रक्षितुं खलु ॥२२२॥ साधूपायस्त्वयाऽदर्शि, प्रिये ! भूपतिदर्शने । सन्ध्यायामद्य मे तन्वि ! पूर्णीभवतु कौतुकम् ॥२२३।। १२० चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy