________________
अहिः प्राह यदि त्वं मे, सत्यं प्रत्युपकारकः । ततस्त्वां तत्र नेष्यामि, नेदीयसा पथा खलु ॥ २००॥ वचस्यङ्गीकृतेऽमुष्मिन्, हरिषेणस्ततोऽहिना । सिंहलद्वीपगामिन्यां, सुरङ्गायामनीयत ॥२०१॥ अग्रेऽहिः पृष्ठतः सैष, हरिषेण: सुरङ्गया । स्वल्पैरेव दिनैद्वपं, सिंहलं प्रापतुश्च तौ ॥२०२॥ गत्वा च रङ्गशालायां, बहिःस्थे वटभूरुहि । क्षणं विश्रम्य तं प्रोचे, हरिषेणो भुजङ्गमम् ॥२०३॥
नागराज ! त्वमेतं हि वटकोटरमाश्रय । प्रविश्याऽहं पुरीं राज्ञो, घातोपायान् विलोकये ॥२०४॥ राज्ञो व्यापादनं श्रुत्वा, गच्छेस्त्वं स्थानमात्मनः । दैवात्तु मारिते राज्ञि, ममाऽप्यस्ति न जीवितम् ॥२०५॥ एवमस्त्वितिसर्पोक्ते, हरिषेणोऽविशत् पुरीम् । सद्यूतक्रीडया स्वस्य, प्राणवृत्तिं करोत्यथ ॥ २०६॥ प्रत्यहं वीक्ष्यते चैष, घातोपायान् महीपतेः । न च प्राप स्थलं किञ्चिद्राज्ञो मृत्युर्भवेद्यतः ॥ २०७॥
ततो दध्यौ मनस्येष, हहा !! मे वचनक्षतिः । अहेरग्रे प्रतिज्ञातं, करोम्यद्याऽपि नैव यत् ॥२०८॥
दिनानामियतां मध्ये, मया दृष्टोऽपि नो नृपः । नैष याति बहिर्नाऽहं गन्तुमीशस्तदन्तिकम् ॥ २०९ ॥ [ युग्मम् ] अथाऽन्यदा नृपाऽऽसन्नचरीं दासीं स कामपि । तवाऽहं कामुकोऽस्मीति, प्रेम्णेवोपचचार ताम् ॥२१०॥
पत्रकुङ्कुमवस्त्राऽदि, मायया तस्य यच्छतः । पत्नीत्वमभजद्दासी, दानात्किं न भवत्यहो !? || २११॥
हरिषेण श्रीषेणकथा |
११९