________________
तवोपकारिणः शङ्का, नागराज ! ममाऽस्ति न । विषमूर्छा निवृत्ता मे, कस्मादिति ? तु सम्भ्रमः ॥१८८।। भुजङ्गः प्रत्यभाषिष्ट, दृष्ट्वा त्वां विषमूछितम् । कारुण्यादनयौषध्योदस्थापयमहं ततः ॥१८९।। हरिषेणस्तमाचष्ट, किं करोमि प्रियं तव ? । प्रत्यूचेऽहिरलम्भूष्णुर्न कर्तुं कोऽपि मत्प्रियम् ॥१९०।। तथाऽपि कथयाऽऽश्वेवं, हरिषेणोदिते ततः । स प्राह मत्पिता दृष्टिविषाऽख्यो निजविद्यया ॥१९१॥ सीभूयाऽथ सर्वत्र, क्रीडन् व्यापादितश्छलात् । सिंहलद्वीपभूपेनाऽनुकृताऽन्तिकमूर्तिना ॥१९२॥ [युग्मम्] पुण्याऽऽढ्यं तं निहन्तुं तु, कथञ्चनाऽपि नाऽस्म्यलम् । ततोऽशक्यप्रतीकारं, पितृवैरं दुनोति माम् ॥१९३॥ क्व कथं त्वत्पिता तेनाऽघानीति प्रश्नितेऽमुना ? । प्राहाऽहिर्मत्पितुर्मैत्र्यमासीच्छेषाऽहिना सह ॥१९४।। अन्यदा स्मितवक्त्रं तं, वीक्ष्य पप्रच्छ मत्पिता । हास्ये को हेतुराहैष, हा ! कीदृग् भवितव्यता ? ॥१९५।। दृष्ट्या दग्धुं जगच्छक्तस्त्वमित्थं सर्परूपधृत् । राज्यप्रदायाः प्रासादे, नरेण तु हनिष्यसे ॥१९६।। श्रुत्वेति मत्पिता दृष्ट्याऽधाक्षीद्राज्यप्रदां पुरीम् । अन्यदा निःसरन् भूमेः, सीभूतो हतोऽमुना ॥१९७॥ इति निशम्य प्रत्युपकारचिकीः प्रमोदभाक् । हरिषेणोऽब्रवीदल्पे, कर्तव्येऽस्मिन्विषीद मा ॥१९८।। महानाग ! मया सैष, पितृवैरी तव ध्रुवम् । व्यापाद्यः किन्तु दूरत्वात्तत्राऽहं गन्तुमक्षमः ॥१९९।।
११८
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।