________________
स्वयं चाऽपि तमन्वेष्टुमुत्सुकायितमानसः । मन्यते निगडप्रायं, राज्यं तत्तादृशं नृपः ॥ १७६॥ मिलिते भ्रातरि ज्येष्ठे, विधास्ये राजपाटिकाम् । द्विर्भोक्ष्ये च सरित्पुत्रो, राजा प्रत्यशृणोदिति ॥ १७७॥ इतश्च हरिषेणोऽपि समुत्तीर्णः सरित्पतेः । श्रीषेणं क्वाऽपि वीक्ष्येऽहं बभ्रामेति चतुर्दिशम् ॥१७८॥ अन्यदा ग्रीष्मसमये, प्रपायां क्वाऽपि सोऽध्वनि । सर्पपीतचरं पाथः, पपौ तृष्णाकरालितः ॥ १७९॥ पीतेन पाथसा तेन, घूर्णमानोऽधिकाऽधिकम् । निद्रायमाणश्छायायां, वटस्याऽधस्तलेऽस्वपीत् ॥१८०॥
हरिद्रावर्णतां भेजे, वपुस्तस्य क्षणादपि । लहरीपरितः सोऽभूदचैतन्यवशंवदः ॥१८१॥ ततो वटतलच्छिद्रमध्यादेको महोरगः । निःसृत्य तन्मुखं वीक्ष्य, नाभिदेशं निपीड्य च ॥१८२॥ जीवतीति च विज्ञायाऽह्लायाऽऽनीय स औषधीम् । अमुचन्नाभिदेशेऽस्य, फूच्चकार च तत्र ताम् ॥१८३॥ [युग्मम्]
तस्य फूत्कारवातेनौषधीसंस्पर्शशालिना ।
परिगतेन देहाऽन्तरुत्तस्थावेष तत्क्षणात् ॥ १८४॥
उत्थितो हरिषेणश्च, वीक्षाञ्चक्रे महोरगम् । नाभिक्षिप्तौषधीदत्तफूत्कुर्वच्चण्डतुण्डिकम् ॥ १८५ ॥
अथ तं वीक्ष्य सर्पोऽपि, शङ्कातरलचक्षुषम् । भूत्वा विद्याधरः सोऽहिस्त्राता तेऽस्म्यब्रवीदिति ॥१८६॥
पय:पानादभूदेवमिति जानन्नसौ स्वयम् । हरिषेणः पुनः सर्पीभूतं तमूचिवानिति ॥१८७॥
हरिषेण श्रीषेणकथा ।
११७