SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ आज्ञापयति वः पौरा !, राजाऽयं सरितःसुतः । राज्याऽऽप्तिमङ्गले यूयं, पू:शोभां कुरुत द्रुतम् ॥१६४।। ततो नगरशोभायां, कृतायामथ भूपतिः । पट्टकुञ्जरमारूढः, सोऽकार्षीद्राजपाटिकाम् ॥१६५।। अथाऽसौ प्रधाने लग्ने, सर्वास्ता राजपुत्रिकाः । चित्तेन परिणीताः प्रागुपयेमे पुनर्नृपः ॥१६६।। रममाणः समं ताभिस्ताराभिरिव चन्द्रमाः । शक्रवन्न्यायवानेष, प्रजाः पाति सरित्सुतः ॥१६७।। व्यग्रः समग्रराजन्योत्थापनस्थापनादिभिः । सर्वथा भ्रातरं ज्येष्ठं, विसस्मार सरित्सुतः ॥१६८।। अथ सांयात्रिकाः केचित्, प्रभूताऽर्जितभूतयः । रत्नस्थालयुतं खड्गमुपानिन्युर्महीपतेः ॥१६९।। शस्त्रप्रियत्वाद्राजाऽपि, खड्गमादाय वेगतः । आचकर्ष प्रतीकारं, वीक्षितुं तस्य सारताम् ॥१७०।। हरिषेणस्य मद्भातुरयमित्युपलक्ष्य तं । युष्माभिरवाप्तः क्वाऽसौ, राजा तानब्रवीदिति ? ॥१७१।। कम्पमानशरीरास्ते, प्रोचुः प्रस्खलिताऽक्षरम् । नृपाऽस्माभिर्गुरुप्रायैर्मज्जन् भव इवाऽम्बुधौ ॥१७२॥ पोतेनोपदशेनेव, तत्पारं प्रापितः पुमान् । ततोऽस्माकं कृतज्ञेन, तेनाऽयमातरीकृतः ॥१७३॥ [युग्मम्] सम्भ्रमात्प्राह भूपोऽपि, गतः क्वाऽसौ ततः परम् ? । ते कृताऽञ्जलयोऽथाऽऽख्यन्, न विद्योऽतः परां कथाम् ॥१७४॥ ततः सरित्सुतो राजा, सत्कृत्य वणिजः स्वयम् । हरिषेणस्य शुद्ध्यर्थं, प्राहिणोत् सर्वतो नरान् ॥१७५॥ ११६ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy