________________
सम्भाव्यमधुना किञ्चिन्नूनमेकाकिभूपतेः । मा च पश्यत्वसावावामित्युक्त्वा जग्मतुश्च ते ॥ १५२॥
श्रीषेणस्तु स्ववृत्तान्तमाकर्ण्याऽऽनन्दमावहन् । नृपं चाऽऽसन्नमालोक्य, निपत्याऽस्थात् क्षणं भुवि ॥१५३॥ राजा च विगताऽऽशङ्को, ययौ तदन्तिकाऽध्वना । श्रीषेणोऽथ समुत्थाय, दूरस्थो नृपमन्वगात् ॥१५४॥ दैवेनाऽन्धीकृत इवाऽपश्यंस्तं पृष्ठगं नृपः । पुरा सङ्केतितैर्द्वास्थैरनुक्तः सौधमाविशत् ॥१५५॥ नृपाऽऽसन्नचरो भावी, नूनमेष पुमानिति । श्रीषेणोऽपि ह्यनुक्तस्तैर्भूपमन्वविशत्ततः ॥ १५६ ॥ गृहाण शस्त्रं भो ! राजन्नेष नो भवसि ध्रुवम् । श्रीषेणोऽथ ब्रुवन्नेवं, शिरश्चिच्छेद भूपतेः ॥१५७॥ जय त्वं कुरु राज्यं त्वं, कुमारीणां पतिर्भव । इति लोकस्य प्रत्यक्षमन्तरिक्षे वचोऽभवत् ॥ १५८॥ दैवतं तद्वचः श्रुत्वा, कुमार्यः सपरिच्छदाः । निवारयन्त्यस्तुमुलं, समीयुः खेदहर्षतः ॥१५९॥ ततः स्वयंवरमालां, कण्ठपीठेऽस्य चिक्षिपुः । राज्यश्रिय इवैतास्तु, पुलकाङ्कुरमेदुरा: ॥ १६० ॥
तदैवाऽऽकारयामासुरमात्यप्रभृतीनिमाः । तैर्ज्ञातस्वरूपै राज्ये, श्रीषेणोऽस्थाप्यत स्वयम् ॥१६१॥ योऽत्र राजा भवेत्तस्य, नाम स्यात्तु सरित्सुतः । श्रीषेणमिति विज्ञप्याऽस्थापयंस्तस्य नाम तत् ॥ १६२॥
सरित्पुत्रस्ततः प्रातरुदयाऽचलमर्कवत् । सिंहासनमलंकृत्याऽऽज्ञापयामास पूर्जनम् ॥१६३॥
हरिषेण श्रीषेणकथा |
११५