________________
अथ दासीद्वयं तत्र, विजनमित्युपेत्य तत् । मिथः पृष्ट्वा सुखदुःखवार्तामेकाऽथ पृच्छति ॥१४०।। एतावन्ति दिनान्यासां, नियमाऽऽराधनस्पृशाम् । किमद्याऽपि न सन्तुष्य, दत्ते देवीप्सितं वरम् ? ॥१४१॥ द्वितीयाऽऽह कुमारीणां, प्रतिज्ञाभररञ्जिता । ददौ राज्यप्रदा देवी, वरं न्यकृतमन्मथम् ॥१४२॥ श्रुत्वा राजप्रदेत्याख्यां, श्रीषेणो निभृतं ततः । तद्वार्तायामदात् कर्णो, विशेषात्तमसि स्थितः ॥१४३।। हृष्टाऽथ प्रथमाऽपृच्छत्, कोऽसौ कोऽसौ वरः सखि !? । द्वितीयः प्राह नाऽस्माभिः, स सम्यगुपलक्षितः ॥१४४।। किन्तु देव्या कुमारीणामादिष्टं यद्भवत्पिता । येन घानिष्यते सोऽयं, युष्माकं भविता पतिः ॥१४५।। देवीप्रसादमित्येताः, प्रतीष्यैवाऽऽगमन्निह । हस्त्यश्वादिबलं सर्वमुपायेनाऽऽत्मसाद् व्यधुः ॥१४६॥ देवतावाक् प्रमाणेन, कुतश्चिदपि कोऽपि हि । एत्यधुना नृपं हत्वा, राज्यमेतद्ग्रहीष्यति ॥१४७|| अथोचे प्रथमा नैव, शक्यो मारयितुं खलु । विना हस्त्यादिसेनां स, शूरेणाऽपि हि भूपतिः ॥१४८॥ द्वितीयोचे न जानासि, राजा स्त्रीलम्पटो ह्यसौ । निशायामेककः पुरू, परिभ्राम्यति सर्वतः ॥१४९।। किञ्च दृष्टिविषं सर्प, यो हि व्यापाद्य तत्क्षणात् । तपत्त्रपुणि कुण्डेऽस्नात्तस्याऽसाध्यं हि किं सखि !? ॥१५०।। तदेहि समयस्तस्येदानीमागमनाय यत् । किञ्चाऽन्धकारपटकं, प्रावृत्याऽभ्येति भूपतिः ॥१५१॥
११४
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।