________________
त्वत्तो बिभ्यदिवाऽत्यर्थं, मोक्ष्ये राजसुतं ततः । यथा त्वत्सन्धा पूर्णा स्यात्तथा याचेर्नृपाद्वरम् ॥२७२॥
पश्चादहं तु यास्यामि, स्वस्थानमुत्कमानसः । विपक्षैर्मुक्तमुद्यानं, शून्यमास्ते विना हि माम् ॥ २७३॥ [ कुलकम् ]
ततो गृहीते यक्षेण, राज्ञः पुत्रेऽथ भूभुजा । वादिते डिण्डिमे सर्वं, हरिषेणस्तथाऽकरोत् ॥ २७४॥
तं मुक्त्वाऽऽशु गते यक्षे, जाते पुत्रे च नीरुजि । महामन्त्रिकोऽयमिति, तुष्टो राजा तमब्रवीत् ॥ २७५॥ याचस्व यदभीष्टं ते, देशेभाऽश्वधनादिकम् । अथ विज्ञपयामास, हरिषेणोऽपि तं नृपम् ॥२७६॥ नृप ! तुष्टोऽसि सत्यं चेत्तदेकं शृणु मद्वचः । सर्वत्र सुलभैरेभिः, पूर्णं देशाऽऽदिभिः प्रभो ! ॥ २७७॥ रङ्गशालायां मच्छत्रुः सरित्पुत्रोऽस्ति भूपतिः । तस्योच्छेदं विधेहीति, याचे त्वामहमादरात् ॥२७८॥ स्मित्वोचे नृपतिः किं भो !, मदर्थो याचितस्त्वया ? । यदग्रेऽप्यभ्यमित्रीणीकृता सेनाऽस्ति तं प्रति ॥ २७९॥ भव तर्हि त्वमेवाऽस्यां, सेनानीर्मानितो मया । मत्सैन्यं सकलं कर्तृ, त्वदाज्ञां मन्निदेशतः ॥ २८०॥ स्ववैरं स्वामिकार्यं चेत्युत्साहविहिताऽऽदरः । गच्छाऽ धुनैव तत्र त्वं, साधु साधय शात्रवम् ॥२८१॥ अस्याऽऽज्ञया वर्त्तितव्यमित्याज्ञाऽप्याऽऽत्मराजकम् । सेनाधिक्षांश्च राजाऽथ, हरिषेणं व्यसर्जयत् ॥ २८२॥ अखण्डप्रयाणैः सोऽपि, रङ्गशालां पुरीं ययौ । सर्वाऽभिसारतस्तां च, परितः पर्यवेष्टयत् ॥ २८३॥
हरिषेण श्रीषेणकथा |
१२५