________________
महासत्त्व ! वृणीष्व द्विर्यत्ते मनसि रोचते । भाषमाणेति सन्तुष्टा, प्रत्यक्षा देवताऽभवत् ॥११६।। श्रीषेणस्तु प्रसन्नां तां, वीक्ष्योपकृतिलम्पटः । एकेन हि वरेणाऽयं, ययाचे रचिताऽञ्जलिः ॥११७।। देवि ! श्रीपुरवास्तव्यः, पौरलोकः स भूपतिः । पूरेण प्लावितो नद्याः, पुनः स जीवतादिति ॥११८॥ देवताऽथ विभङ्गेन, ज्ञानेन तद्विजानती । प्राह हंहो !! धीरोत्तंस !, स्वयं तत्राऽस्ति कौशलम् ॥११९॥ तद्वृणीष्व परं किञ्चिद्वराभ्यां सत्त्वमन्दिर ! । तवोपकारसत्त्वाभ्यां, तुष्टाऽस्मि दातुमुद्यता ॥१२०॥ श्रीषेणोऽथ विमृश्यैकवरेण सोऽवृणोदिति । सङ्गीतकामिनीयुक्तं, महत्साम्राज्यमस्तु मे ॥१२१॥ दुःसाध्ये क्वाऽपि कार्ये त्वां, यदा देवि ! स्मराम्यहम् । आगच्छेस्त्वं तदा क्षिप्रमित्यस्तु मेऽपरो वरः ॥१२२॥ [युग्मम्] एवमस्त्विति मत्वा सा, तिरोभूताऽथ देवता । श्रीषेणोऽपि च तन्मूर्ति, प्रणम्य निरगाबहिः ॥१२३।। क्व मे सखाऽयं सम्भाव्यः ?, श्रीषेणश्चिन्तयन्निति । बभ्राम परितस्तत्र, कुर्वन् शब्दं च तं प्रति ॥१२४॥ कुतश्चिदपि नाऽयासीत्, स पुरुषो गताऽसुवत् । हहा ! क्वाऽयमिति ध्यात्वा, सैष खड्गसखोऽचलत् ॥१२५॥ विना तामौषधीं क्लीबः, श्रीषेणो गन्तुमम्भसि । निकषाऽब्धितीरं काञ्चिद्दिशमुद्दिश्य जग्मिवान् ॥१२६॥ देव्याऽपि हि दुरुच्छेदं, सर्प हत्वा वृतो वरः । त्यक्तस्वभ्रातृशुश्रूषं, न मां सुखीकरोत्यसौ ॥१२७।।
११२
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।