SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ततोऽस्मिन् पन्नगे सर्वं, भस्मीकृत्य निवर्तिनि । तन्माहात्म्याऽहिताऽऽतङ्का, तिरोभवति देव्यपि ॥१०४।। विधातुं भस्मसात् सर्वं, स्थित्वा मासान् दशेह सः । आस्ते द्विमासी योगस्थो, बिलस्याऽन्तः प्रविश्य हि ॥१०५॥ ततः स्थानममत्वेन, देवी राज्यप्रदा पुनः । शक्त्या निर्मापयत्येव, पुरं तरुविराजितम् ॥१०६॥ इति कथयन्त्यां तस्यां, बिलाज्ज्योतिरजृम्भत । सोऽयं सर्पः समेतीति, भीता वृद्धा ननाश सा ॥१०७॥ ततश्च पुरुषोऽप्येष, कम्पमानमनस्तनुः । एह्येहि क्वाऽपि नश्यावो, वदन्नित्यन्वगाच्च ताम् ॥१०८॥ श्रीषणश्च ततो राज्यस्त्रीलुब्धत्वादपेतभीः । खड्गमाकृष्य स्तम्भस्याऽन्तरेऽस्थादतिनिश्चलः ॥१०९॥ ततः फूत्कारवात्याभिरुत्क्षिपन्तीव मन्दिरम् । निस्ससार फणाऽऽभारचण्डा तुण्डी बिलादहिः ॥११०॥ चतुरङ्गलमानां तां, निःसृतां वीक्ष्य हर्षतः । श्रीषेणः स्वकृपाणेन, चिच्छेदोरगतुण्डिकाम् ॥१११॥ स्वेनाऽथाऽपावृते देवीद्वारात् कपाटसम्पुटे । सोऽपश्यदुरगोच्छेदहृष्टाऽऽस्यामिव देवताम् ॥११२॥ तन्मूर्तेः पुरतश्चैकं, वीक्ष्य कुण्डं यथाश्रुतम् । नमस्कृत्य स तां देवीं, बद्ध्वाऽञ्जलिर्व्यजिज्ञपत् ॥११३।। देवि ! दीपोत्सवं यावन्नाऽस्म्यलं स्थातुमत्र तत् । मयि प्रसीद मन्यस्वाऽद्यैव तद्दिनयामिनीम् ॥११४॥ इत्युक्त्वा सहसा तस्मिन्, कुण्डे झम्पामदादसौ । तप्तं त्रपु बभूवाऽथ, क्षणात्पीयूषसोदरम् ॥११५॥ हरिषेणश्रीषेणकथा । १११
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy