SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्रीषेणः प्राह मा भैषी—हि त्वमकुतोभया । यत्तवाऽऽतङ्ककर्तारं, मत्खड्गः शिक्षयिष्यति ॥९२॥ सावज्ञं प्राह सेदानीमेतस्मात्कुटिलाद्विलात् । दृष्टिविषो महासर्पो, निर्गन्ता यमखड्गवत् ॥१३॥ यद्वस्तु सम्मुखं तस्य, सजीवं मानुषाऽऽदिकम् । तदृष्टिरश्मिभिः स्पृष्टं, भस्मीभवति तत्क्षणात् ॥९४॥ कुतोऽप्यासादितवरो, देवताभिर्न मार्यते । किन्त्वैतिह्यमिदं मत्र्यैः, प्रेष्योऽयं यममन्दिरम् ॥९५।। किञ्चाऽत्रैनमजानन्त्यो, वसन्त्यः केवलाः स्त्रियः । बढ्यो भस्मीकृताः क्रूरेणाऽनेन विषचक्षुषा ॥१६॥ ततो यातं युवां क्वाऽपि, सापायाद्देवतौकसः । अहं च वसुधाऽन्तःस्थं, यामि स्वं वेश्म भीतिभाक् ॥९७।। श्रीषेणः पुनरूचे तां, मातरेकं वचः शृणु । एताः कथय कुत्रत्याः, सङ्गीतककृतः स्त्रियः ? ॥९८॥ सत्वरं प्राह सा वत्स !, सर्वास्ता राजकन्यकाः । दीपोत्सवे दीपोत्सवे, रात्रावायान्ति नन्विह ॥९९॥ कृत्वा ता देवतायाश्च, स्नानपूजाऽऽदिकं स्वयम् । सङ्गीतेनाऽऽराधयन्त्यो, जाग्रत्येतां निशामिह ॥१००॥ श्रीषेणः प्राह किं तासां, देव्याराधनकारणम् ? । ऊचे वृद्धा प्रतिज्ञातमेताभिरिदमात्मना ॥१०१॥ यो हि दृष्टिविषं सर्पमेनं हत्वा तदैव हि। देवीमूर्तिपुरःस्थेऽत्र, कुण्डे स्नास्यति तापिते ॥१०॥ स एव साहसाऽऽवासो, नरोऽस्मान् परिणेष्यति । इत्याप्तयौवनाश्चाऽपि, न वृण्वन्ति नराऽन्तरम् ॥१०३॥ ११० चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy