________________
आसन्नस्तम्भाऽवष्टम्भाऽचलत्सर्वाङ्गधारिणौ । रेजाते तौ कटाक्षैः स्वैरेताभिः कीलिताविव ॥८०॥
कर्णपालीविशद्गीतिपीयूषवृष्टिजाड्यभाक् । तन्मनोहृत्कुटीकोणे, निलीयाऽस्थादचेतनम् ॥८१॥ तयोर्निश्चेष्टयोरेवं, सुखमूर्च्छामिवेयुषोः । गीतग्रहिलतां द्रष्टुमिवाऽऽशु प्रोदगाद्रविः ॥ ८२ ॥ उदितश्च सहस्रांशुस्तिरोभूताश्च योषितः । गीताऽ ऽनुरणनभ्रान्त्या, तस्थतुस्तौ तथैव तु ॥८३॥
अर्केणोत्थापनायैव, गाढं स्पृष्टौ करैर्निजैः । निद्रामिव समुज्झन्तौ, रङ्गे चिक्षिपतुर्दृशौ ॥८४॥ न यावत्पश्यतस्तासां, मध्ये ह्येकामपि स्त्रियम् । ततः सस्मरतुः स्वार्थं, जातजातिस्मृती इव ॥८५॥
विलोक्योदितमादित्यं सम्भ्रान्तावभिदेवताम् । चलितौ पश्यतो द्वारं, पिहितं निजपुण्यवत् ॥८६॥ अहहा !!! किमभूदेतद्गीतमोहितचेतसोः । दूरे राज्यश्रियो देव्या, न नौ दर्शनमप्यभूत् ॥८७॥ धिग् धिग् व्यसनिनावावां, कृत्वा कष्टमिहाऽऽगतौ । न चाऽभूत् फलनिष्पत्तिर्व्यसनं हि न सिद्धये ॥८८॥ सहस्तघर्षमित्युक्ते, पुरुषेणाऽवरेण हि । वृद्धा काचित्समायासीद्वदन्ती यात यात रे ! ॥८९॥ नत्वैनां पुरुषोऽप्राक्षीत्, किं निर्वास्यावहे त्वया ? | साऽख्यत् सकम्पमत्राऽर्थे, वत्साऽऽस्ते महती कथा ॥ ९० ॥
,
कथामेतामथाऽऽख्यातुमिदानीमस्मि कातरा । अन्तरुत्तिष्ठदातङ्कनष्टाऽमृतकलाऽऽनना ||११||
हरिषेण श्रीषेणकथा |
१०९