SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ यक्षं प्रति विरक्तः सन्, श्रीषेणः प्रत्यभाषत । दत्से लेपौषधं चेन्मे, तदा यामि त्वया सह ॥ ६८ ॥ स प्राह प्रार्थनादैन्यं, सुप्रापे किमियत्यपि ? | गृहाणैतां त्वमप्येहि, राज्याऽऽप्तौ कुरु साहसम् ॥६९॥ इति तेनाऽऽर्पितौषध्या, विलिप्य स निजक्रमौ । मुक्त्वा स्वं भ्रातरं सुप्तं, तेन सार्धं चचाल च ॥७०॥ औषधप्रभावात्तौ तु, जङ्घालावप्सु गामुकौ । रत्नद्वीपं क्षणादेव, प्रापतुः पक्षिणाविव ॥७१॥ अथोत्सर्पत्प्रभाभारकीर्णरत्नमरीचिभिः । दूराऽपास्ततमःस्तोमकृतप्राकारविभ्रमे ॥७२॥ स्वच्छमुक्तामणिश्रेणिगुच्छग्रथितदामनि । शातकुम्भमहास्तम्भमूर्द्धन्याबद्ध तोरणे ॥७३॥ कृतकुट्टिमनीलाऽश्मपय: संशयशालिनि । परितो विस्फुरद्धेममत्तवारणपालिनि ॥७४॥ स्वयं चन्द्राऽश्ममयत्वात्फेनसब्रह्मचारिणि । मसृणमणिसोपानरोहत्पतत्पुरन्ध्रिणि ॥७५॥ पाञ्चालीदीपिकाहस्तन्यस्तमाणिक्यभासुरे । वेश्मन्येवंविधे देव्यास्तौ द्राग् विविशतुस्ततः ॥ ७६॥ [पञ्चभिः कुलकम्] तन्मूर्त्तेश्च पुरः कुर्वन्, सङ्गीतं मधुरध्वनि । अतिश्रीरूपलावण्यं, स्त्रीवृन्दं तावपश्यताम् ॥७७॥৷ अथाऽऽयातौ च नेदीय: स्त्रीवृन्दस्य प्रगायतः । विस्मृताऽपरकर्तव्यौ, स्तम्भिताविव तस्थतुः ॥७८॥ गायन्त्यां क्षणं नर्त्तक्यां, क्षणं वीणाऽऽकृतिक्षणम् । भ्रान्त्वा श्रान्तेव तदृष्टिर्निर्निमेषत्वमाश्रयत् ॥७९॥ १०८ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy