________________
अहा !!! नगरी सैषा, मग्नाऽत्र दृश्यतेऽपि न । स यक्षाऽऽराधको भूपो, मृत्युमाप्तो भविष्यति ॥५६॥
धिग् धिग् यक्षमिमं येन, रक्षता मन्दिरं निजम् । यः स्वाऽऽत्माऽऽराधको भूपो, पूर्लोको रक्षितोऽपि न ॥५७॥ इति चिन्तयति भ्रान्ते, श्रीषेणे भयमीयुषि । भूमाविव चलन्नप्सु पुमानेकः समायौ ॥५८॥
अस्माकं यक्षतोऽप्येष, सप्रभावः पुमानहो ! । चलत्यम्भसि य: पद्भ्यां, ध्यात्वेत्यूचे स तं नरम् ॥५९॥ अहो ! कस्त्वं ? महाभाग !, शक्तिर्यस्येयमीदृशी । समीहसे क्व वा गन्तुं ?, त्वरा यस्येयमीदृशी ॥ ६० ॥ अथ श्रीषेणमूचे स, भूरिश्वासभृताऽऽननः । नालम्भूष्णुरहं तुभ्यमिदानीं दातुमुत्तरम् ॥६१॥ तथाऽपि किमपि ब्रूहीत्युक्तः श्रीषेणमाह सः । रत्नद्वीपं व्रजन्नस्मि, कार्यं यत्तत्र तच्छृणु ॥६२॥ तस्मिन् द्वीपे समस्त्येका, देवी राज्यप्रदाऽभिधा । तत्पुरोऽस्ति महाकुण्डं, तापितत्रपुसम्भृतम् ॥६३॥ दीपोत्सवनिशायां च, स्नायात् कुण्डेऽत्र यो नरः । तस्य तुष्टा महाराज्यं, दत्ते सा देवता खलु ॥६४॥ इति कल्पप्रमाणेन, द्वीपं यास्याम्यहं ततः । औषधाऽऽलेपमाहात्म्यात्, पद्भ्यां यामि जले द्रुतम् ॥६५॥
श्रीषेणश्च निशम्येति, गच्छतस्तस्य कारणम् । स्वयञ्च कृतराज्येच्छः, पुनरूचे स तं नरम् ॥६६॥ आगन्तव्यं कदा तस्मात् ?, सोऽवोचदधुनैव हि । न चिरं लभ्यते स्थातुं, तत्र स्त्रीसङ्कुले नरैः ॥६७॥
हरिषेण श्रीषेणकथा |
१०७