________________
एषोऽहं कारयामीति, विज्ञप्ते तेन मन्त्रिणा । नत्वा तं नृपतिर्धाम, जगाम मुदितस्ततः ॥४४॥ मन्त्री च कारयामास, काष्ठप्रासादमुच्चकैः । निखन्य स्तम्भान्नद्यन्तरचाल्यान् पूरपाथसा ॥४५॥ यक्षवेश्मनि निष्पन्ने, चक्रे प्रेक्षणकस्थितिम् । नृपः प्रणम्य तं भुङ्क्तेऽन्येऽप्येवं बहवो जनाः || ४६॥ हरिषेण श्रीषेणौ च यक्षस्याऽऽसन्नसेवकौ । सत्क्रियेते च लोकेन, तादृक् सेवा न निष्फला ॥४७॥ वर्षाकाले नदीपूरे, समायातेऽपि नैव च । पाथसा ह्रियते तस्य, यक्षस्य काष्ठवेश्म तत् ॥४८॥ पूरेऽपि तत्तथाभूतं, दृष्ट्वा लोको विसिष्मिये । तदेकदेवतीभूय, तस्य भोगमकारयत् ॥४९॥ अथ दीपोत्सवे प्राप्ते, पुंसा केनाऽपि यक्षराट् । पात्रेऽवतारितो रात्रौ, प्रष्टुं किञ्चिन्निजौकसि ॥५०॥
तदैव दैवतो नद्यां, महत्पूरं समागमत् । यक्षशून्यं नदीपूरेणाऽऽकृष्टं काष्ठवेश्म तत् ॥५१॥ अन्तः सुप्तहरिषेण श्रीषेणं दीपमण्डितम् । स्रोतसा नीयमानं च, समुद्राऽन्तस्तदाऽपतत् ॥५२॥ सरित्पतिपयस्यस्मिंस्तरति यक्षवेश्मनि । समुद्रगर्जितध्वानैर्जजागाराऽनुजस्ततः ॥ ५३ ॥
श्रीषेणस्तत उत्थाय, वेश्मनोऽस्मादगाद्बहिः । अपश्यच्च ससम्भ्रान्तो, जलाऽद्वैतं हि सर्वतः ॥५४॥
कुर्वाणैः किं महावृष्टि पाथोदैः पूरिता मही ? | अकालोच्छृङ्खलोदन्वन्नीरैः किं प्लावितं जगत् ? ॥५५॥
१०६
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।