________________
साऽऽश्चर्यो नृपतिर्वालुकोत्करस्य पुरः स्थितः । कृत्वाऽञ्जलिमुवाचैवं, समक्षं सर्वसंसदः ॥३३।। यदि कोऽपि प्रभावोऽस्ति, भवतस्तत्सुतस्य मे । दृढबाहोर्गतस्याऽरिदेशे शुद्धिं समानय ॥३४॥ इति नृपोदिते यक्षो, वालुकोत्करधारणे । विधाय यत्नं कमपि, नृपपुत्राऽन्तिकं ययौ ॥३५॥ शुद्धिस्ते ननु नाऽऽयाति, दवीयस्त्वाच्चिरेण तत् । श्रीदुर्गबाहुना राज्ञा, महादुःखमुपेयुषा ॥३६॥ अभ्यर्थितस्त्वच्छुद्ध्यर्थं, यक्षोऽहं श्रीपुरादिह । समागां नभसा शीघ्रं, दृढबाहो ! नृपोद्वह ! ॥३७।। [युग्मम्] ततः स्वशुद्धिलेखं त्वं, साऽभिज्ञानं समर्पय । इति नभःस्थयक्षोक्ते, दृढबाहुस्तथाऽकरोत् ॥३८॥ अभिज्ञानास्त्रिकायुक्तं, लेखमानीय तत्क्षणात् । तथैवोर्ध्वस्थराज्ञोऽस्य, हस्ते यक्षस्तमक्षिपत् ॥३९॥ राजा पुत्राऽस्त्रिकां दृष्ट्वा, हर्षबाष्पजलोमिभाग् । स्वयमुद्ग्रथ्य तं लेखं, सगद्गदमवाचयत् ॥४०॥ स्वस्ति श्रीपुरपत्तने स्वपितरं नत्वा ब्रुवे कौशलं, दुर्गाऽन्तःस्थकलिङ्गराजमधुना व्यापाद्य सद्यस्ततः । पूज्यप्रेषितदेवताऽर्पितभवच्छुद्धिप्रमोदोत्सुकः, प्रत्येष्यामि तदत्र निश्चयपराऽभिज्ञानमेषाऽस्त्रिका ॥४१॥ तच्छुद्ध्यानयनात्प्रीतो, राजा साऽन्तःपुरस्ततः । विलिप्य पूजयित्वा च, ननाम वालुकोत्करम् ॥४२॥ अमात्यमादिशच्चाऽथ, यद्वालुकोत्करोपरि । महद्यक्षगृहं काष्ठमयं कारय सत्वरम् ॥४३।।
हरिषेणश्रीषेणकथा ।
१०५