________________
अधिष्ठितो मया चाऽयमाहतोऽप्यम्बुवायुभिः । वालुकोत्करः शैलवन्न गतो विशरारुताम् ॥२१॥ मयि प्रत्ययितो लोको, दत्ते यदुपयाचितम् । ग्राह्यं सर्वं युवाभ्यां तत्, कार्यो भोगः सदा मम ॥२२॥ शिक्षयित्वेति तौ यक्षोऽथाऽध्यष्ठाद्वालुकोत्करम् । यथा तथाऽपि लोकेऽस्मिन्, प्रकाश्यो गुणिभिर्गुणः ॥२३॥ हरिषेणश्रीषेणाभ्यां, ततो लोकस्य पश्यतः । स्त्रपितोऽप्यम्बुनाऽत्यर्थं, नाऽपतद्वालुकोत्करः ॥२४॥ तदाऽऽश्चर्यं समीक्ष्याऽथ, पूर्लोकः कौतुकात्ततः । घर्षयन् स्नपयत्येनं, पयस्कुम्भशतैः स्वयम् ॥२५॥ वालुकोत्करतस्तस्माच्चलत्येकोऽपि नो कणः । महाप्रभावोऽयमिति, ख्यातोऽभूत् सकले पुरे ॥२६।। केन केनाऽपि दुःखेन, पीडितः पूर्जनस्ततः । उपयाचितान्याचष्ट, यक्षः पूरयति क्षणात् ॥२७॥ पूरितप्रत्ययो लोको, यक्षं प्रत्यतिभाववान् । अकारयद्देवगृहं, तद्वालुकोत्करोपरि ॥२८॥ कामिताऽर्थप्राप्तिप्रीतो, दत्ते यत्किञ्चनाऽपि यः । हरिषेणश्रीषेणौ तद्गृह्णीतस्तस्य सेवकौ ॥२९॥ पृथक् पृथग् नृणामग्रे, तौ तत्प्रभावमूचतुः । प्रसादाज्जीव्यते यस्य, स ख्याप्यो हि विपश्चिता ॥३०॥ जनश्रुत्या ततो ज्ञात्वा, यक्षं साऽतिशयं तु तम् । दुर्गबाहुर्नृपस्तत्र, यक्षौकसि समागतम् ॥३१॥ काश्मीराऽम्भोभिरत्यर्थं, स्नपयामास तं नृपः । न तैरभेदि स क्वाऽपि, जिनवाक्यैरभव्यवत् ॥३२॥
१०४
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।