SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ अहं हि श्रीफलाऽभिख्योद्यानाऽधिष्ठायकस्ततः । अन्यैर्महर्द्धिकैर्यक्षैस्तस्मानिर्वासितो बलात् ॥९॥ विजेतुमनलम्भूष्णुः, शत्रूनहमिहाऽऽगमम् । बहूनां हि विपक्षाणां, शूरोऽप्येकः करोतु किम् ? ॥१०॥ मनश्चाऽत्र न मे स्थास्नु, भूरिभोगाऽभिलाषुकम् । सहायौ तधुवां कृत्वा, यातुमिच्छामि कुत्रचित् ॥११॥ इति यक्षवचः साक्षान्निशम्याऽथ ससम्भ्रमम् । कृताऽञ्जली ततो यक्षं, प्रत्येताविदमूचतुः ॥१२॥ सेवको स्वो मनुष्याणामप्यावां द्रव्यलोभतः । किं पुनर्देवयोनेस्ते वाञ्छिताऽर्थविधायिनः ? ॥१३॥ आवां भृत्यौ भवान् स्वामी, किं न्यूनमियताऽपि नौ ? । अमूर्तस्य तवाऽऽवाभ्यां, यद्विधेयं तदादिश ॥१४॥ यक्षः प्राह स्वशक्त्याऽहमधिष्ठाय किमप्यहो !? । तिष्ठामि यत्र तत्रैव, युवाभ्यां स्थेयमादरात् ।।१५।। प्रतिपन्ने वचस्याभ्यां, पुरुषीभूय यक्षराट् । एताभ्यां सहितो गच्छन्, प्राप श्रीपुरपत्तनम् ॥१६॥ ऊचे यक्षस्ततो यद्भो !, अग्रे नाऽस्ति गतिर्मम । बहुभिर्व्यन्तरेतत्पुरं व्याप्तं विभागतः ॥१७॥ तदेतन्नगराऽऽसन्ननदीपरिसरे क्वचित् । स्थास्यामीति गतस्तत्र, यक्षः पुनरुवाच तौ ॥१८॥ भवन्तौ कुरुतामत्र, वालुकोत्करमुच्चकैः । कल्हारपत्रिकाभिश्च, ततः पूजयताममुम् ॥१९।। कृते ताभ्यां तथा यक्षः, शिक्षामित्येतयोरदात् । अहमेनमधिष्ठाय, विधास्ये स्वप्रभावनाम् ॥२०॥ हरिषेणश्रीषेणकथा । १०३
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy