________________
हरिषेणश्रीषेणकथा
कथामेनां निशम्याऽयमजापुत्रो विशेषतः । विवेकाद्गतनिद्रः सन्, पुनः पप्रच्छ सत्कथाम् ॥१॥ वयस्योऽपि जिनेन्द्रोक्तधर्मसंवम्मितां कथाम् । विनयप्रधानां भूयः, प्रारेभे कलया गिरा ॥२॥ अस्तीह भरतक्षेत्रे, विशाला नाम पूर्वरा । विशालविक्रमो नाम, तत्राऽऽस्ते पृथिवीपतिः ॥३॥ तत्राऽभूतां हरिषेणश्रीषेणाऽऽख्यौ सहोदरौ । क्षत्रियौ परमस्नेहादवियुक्तौ परस्परम् ॥४॥ अथाऽवलगनाऽर्थं तावुभौ देशान्तरं प्रति । चेलतुर्येन नैव स्युस्तेजस्विनो निरुद्यमाः ॥५॥ गच्छन्त्वावन्यदा सायं, समीक्ष्य यक्षमन्दिरम् । वासाऽर्थं जग्मतुस्तत्र, कुलायमिव पक्षिणौ ॥६॥ क्व गन्तव्यं ? नृपः को वा, योग्यः सेवितुमावयोः ? । इत्यादि मन्त्रयन्तौ तौ, यक्षोऽन्तःस्थोऽब्रवीदिति ॥७॥ हं हो ॥ मत्त्यौ ! युवां सेवां, विधातुमनसौ यदि । तदाऽहमेव सेव्यो वां, सर्वं दातुं क्षमोऽस्मि यत् ॥८॥
१०२
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।