________________
देवीवाचं ततः श्रुत्वा, बालाऽऽह सर्वसाक्षिकम् । चेत्पुरीपद्रयक्षस्य, शापाऽनुग्रहकारिणः ॥ ५९३ ॥ आरामतनयः स्वेन, पाणिभ्यां कुरुतेऽर्च्चनम् । तदा निवर्त्ततेऽवश्यं, रोगोऽस्य मृत्युरन्यथा ॥५९४|| [युग्मम् ] तच्छ्रुत्वाऽऽरामपुत्रोऽथ, सम्यक्त्वकृतनिश्चयः । दध्यौ यद्यस्ति मृत्युर्हि, तत्केनाऽपि न जीवति ॥५९५॥ अथ जीवितमस्त्यस्य, पूर्वोपार्जितमायतम् । तत्केनाऽपि न मृत्युः स्याद्यक्षेण व्यन्तरेण वा ॥५९६॥ अर्थेऽस्मिन् गतसन्देहे, किं यक्षाऽऽदिभिरचितैः ? | तदर्चा येन सम्यक्त्वदूषणाय भवेन्मम ॥ ५९७|| सुतस्तु म्रियतां वाऽपि जीवताद्वा स्वकर्मतः । जाता मृताश्च भूयांसः, संसारे वसतां सुताः ॥५९८॥ भवकोटिभ्रमात्प्राप्ते, मानुषत्वेऽतिदुर्लभे । तत्राऽपि प्राप्य सम्यक्त्वं, तज्ज्ञ: को दूषयत्यदः ॥५९९॥ ऊचे च मान्त्रिकं शीघ्रं, त्वं विसर्जय मण्डलम् । नाऽहं कल्पद्रुमं मुक्त्वा, सेवे धत्तूरकाऽङ्घ्रिपम् ॥६००॥ इत्युक्तो मान्त्रिकस्तेन, संहृत्य मण्डलं क्षणात् । बभूव व्यन्तरी दिव्यनैपथ्योद्भटविग्रहा ||६०१॥ ततो वनभुवं प्रोचे, त्वत्सम्यक्त्वं परीक्षितुम् । किलैतत्कृतवत्यस्मि, नीरुक् पुत्रोऽस्त्यतः परम् ||६०२|| इत्युक्त्वा व्यन्तरी शक्त्या, तिरोभूता ततः क्षणात् । स पूर्णकलसो नीरुक्, भूत्वा चिक्रीड पूर्ववत् ॥६०३॥ आरामतनयोऽप्येष पालयित्वा विशेषतः । सम्यक्त्वं तत्प्रभावेन, दिवं प्रापाऽऽयुषः क्षये ||६०४||
आरामनन्दनकथानकम् ।
आरामतनयकथा समाप्ता ॥ ग्रन्थाग्रम् ६१४॥
१०१