________________
पितरौ नाम चक्राते, श्लाघितौ सुतजन्मना 1 ततः सोऽपि क्रमाल्लाल्यमानः प्रापाऽथ यौवनम् ॥ ५८० ॥
समानगुणरूपाभिरिभ्यपुत्रीभिरुत्सवात् । पितृभ्यां पूर्णकलसः, सन्तोषात् पर्यणाय्यत || ५८२१ || आरामतनयस्याऽथ, सम्यक्त्वस्थैर्यमीक्षितुम् । आसन्नव्यन्तरी क्वाऽपि, चकारेत्यसमञ्जसम् ॥५८२॥ पाणिग्रहणाऽनुपदं, पुत्रस्याऽऽगान्महाज्वरः । तद्वशाद्दाहदीर्घार्त्तिस्तं प्रचक्रेऽतिदुस्सहम् ||५८३|| सोऽचैतन्यादसम्बद्धं, प्रलपति लुठन् भुवि । न वैद्येन न यक्षैश्च बभूवाऽस्य ज्वरक्षयः ||५८४॥ ततश्चाऽऽगात्कुतोऽप्येको, मान्त्रिकः स्फुटडम्बरः । ज्ञात्वा तं वनसूराह्वच्चिकित्सायै सुतस्य तु ॥ ५८५॥ सत्कृत्वा [सत्कृत्य] मण्डलाऽऽलेखमुपवेश्य कुमारिकाम् । क्षिप्तमक्षतपात्रेऽसिं, पूजयामास डम्बरात् ॥५८६॥ स्वयं तु ध्यानमुद्राभिः, किलाऽवतार्य यक्षिणीम् । खड्गे कुमारिकां प्राह, बाले ! पश्यसि किञ्चन ? ॥ ५८७ बालाऽऽह खड्गे पश्यामि, यक्षिणीं भीषणाऽऽकृतिम् । मान्त्रिकः प्राह किं ब्रूते ?, यक्षिणी कथय स्फुटम् ॥५८८॥ सम्यगाकर्ण्य बालाऽपि, समाख्यदुच्चकैरिदम् । यक्षिणीयं वदत्येतद्यत्पूर्णकलसो ह्यसौ ॥ ५८९ ॥ मोचनाऽर्थमशक्येन, ग्रस्तो दोषेण भूयसा । गच्छन् सम्भाव्यते वेश्म, कृतान्तस्येति निश्चयः ॥ ५९०॥ इति श्रुत्वाऽपि बालाया, वाचं प्राणाऽपहारिणीम् । पद्मावती मुमूर्च्छाऽथ धीरस्त्वाऽऽरामसूर्जगौ ॥५९१॥ पृच्छ मान्त्रिक ! दोषोऽयं, निवर्त्तते कुतोऽप्यहो ! । अपप्र(न्वपृ)च्छदसौ देवीं, बालया खड्गवासिनीम् ॥५९२॥
१००
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।